SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १४८ www.kobatirth.org अद्वैतमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir I ब्रह्मणि सद्रूपतादात्म्यभानात् सद्रूपोपादानकत्वं स्यात् । सत्तासम्बन्धेन सत्तादात्म्येन । सत्त्वं सद्विषयकत्वम् । स्वरूपेणैव सदितरविषयकत्वं विना । अनाप्ताप्रणीतत्वादिना भ्रमप्रमादादिदोषवत्पुरुषाकृतत्वादिना । जात्यैव प्रत्यक्षत्वेनैव । ने त्वनुमान विरुद्धत्वादिना । उपजीव्यत्वेति । धर्म्यादिज्ञापकविधया अपेक्षणीयत्वेत्यर्थः । त्वचः त्वाचस्य वचौष्ण्यप्रत्यक्षस्य । साध्यप्रसिद्धेः अनौप्ण्यरूपशैत्यज्ञानस्य । त्वचं त्वाचं औप्ण्यप्रत्यक्षम् । विना अभावात् अनुत्पत्तेः । धर्मादिग्राहकत्वेन यागादौ स्वर्गादिसाधनत्वस्य ग्राहकत्वेन । वैदिकार्थेति । वेदमात्रगम्येत्यर्थः । अद्वैतस्येति । वस्तुतो मानान्तराविषये मानान्तरस्यागमबाध्यत्वं न युक्तम् । यत्र हि ययोर्मानियोर्विषयत्वं प्रसक्तं, तत्र तयोर्बाध्यबाधकत्वमिति बोध्यम् । क च प्रत्यक्षत इत्यादि । उपलक्षणमिदं चक्षुरादिवलवत्त्वबोधकार्थवादादिरूपश्रुतीनां स्मृत्यन्तराणामपि । तेन दीक्षणीयेष्ठ्यर्थवादरूपाणां ' एतद्धि वै मनुष्येषु सत्यं निहितं यच्चक्षुस्तस्मादाचक्षाणमाहुरद्रागिति स यद्यदर्शमित्याहाथास्य श्रद्दधती ' त्यैतरेय ब्राहणस्थानां ' द्वौ विवदमानावेवायातामहमदर्श महमश्रौषमिति य एवं ब्रूयादहमदर्शमिति तस्मा एव श्रद्दधते ' इति वाजसनेयशाखास्थानां च श्रुतीनां परीक्षितप्रामाण्यकचक्षुरादीनां मानान्तरादपरीक्षितप्रामाण्यकात् बलवत्त्वबोधकत्वं बोध्यम् । उक्तं न्यायमाह – उक्तं हीति । असञ्जातविरोधित्वात् न सञ्जातो विरोधी यस्य तत्त्वात् । अर्थवादः 'अनेः ऋग्वेदो वायोर्यजुर्वेद आदित्यात् सामवेदस्तस्मादि'त्ययमुपक्रमस्थोऽर्थवादः । यथाश्रुतः मुख्यार्थक ऋग्वेदादिपदकः । आस्थेयः स्वीकार्यः । तद्विरुद्धस्य अर्थवादविरुद्ध ऋगादिमन्त्रवाचकस्य । विध्युद्देशस्य ‘उच्चैर् ऋचा क्रियते उपांशु यजुषा उच्चैस्साम्ने 'ति विधिवाक्येषु स्थितस्य ऋगादिपदस्य । लक्षणा ऋग्वेदादिरूपार्थलक्षकत्वम् । तथा च ऋग्वेदेन यत् क्रियते विधीयते तत्कर्म उच्चैस्स्वरेण कुर्यादित्यर्थः । अत्रार्थवाद इत्यनेन पूर्वपक्षस्सूचितः । स चार्थवादस्य साधनेतिकर्तव्यतारूपांशद्वय विशिष्टार्थभावनायां विधिवाक्यार्थभूतायां विशेषणी भूतप्राशस्त्यबोधकत्वेन विधिवाक्यं प्रति गुणीभूतत्वात् 'अङ्गगुणविरोधे च तादर्थ्यादिति न्यायादर्थवादस्थेषु ऋग्वेदादिपदेषु ऋगादिमवलक्षणां स्वीकृत्य तादृशमन्त्राणामेव प्राशस्त्यबोधनद्वारा विधिवाक्यार्थोक्तभावनायामुक्तमन्वभाव्यकायामेव प्राशस्त्यबोधकत्वसम्भवात् न ऋगादिपदानां वेदलक्षकत्वमित्येवंरूपः असञ्जातविरोधित्वादित्यनेन तद्विरुद्धस्येत्यनेन च सिद्धान्तस्सूचितः । स चोक्तरीत्या गुणीभूतस्याप्यर्थवादस्योपक्रमस्थत्वेनासञ्जातविरोधित्वादुक्तमन्त्रलक्षकत्व१. ' न त्वन्यमानाविरुद्धप्रत्यक्षत्वादिना' इति पाठान्तरम् । For Private and Personal Use Only - -
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy