SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२२ अद्वैतमञ्जरी तात्वावच्छिन्नाभावो न प्रत्यक्षः । 'यद्यत्र तादृशप्रतियोगित्वं स्यात् तदोपलभ्येते त्यापादनासम्भवादिति भावः । पूर्वोक्तति । स्वात्यन्ताभावीयसकलाधिकरणवृत्तित्वस्यायोग्यत्वेन सुतरां तदभावस्यायोग्यत्वादित्येवंरूपेत्यर्थः । तथा च व्यवहितविप्रकृष्टतादशाधिकरणवृत्तित्वस्य सत्त्वेऽप्यनुपलब्धिसंभवात्तदुपलब्धेरापादनासम्भवात्तादृशाभावो न प्रत्यक्ष इति भावः । अयोग्यत्वमिन्द्रियासनिकर्षेण प्रत्यक्षाविषयत्वमेव । तच्च उक्ताभावे नास्ति । सामान्यप्रत्यासक्तिरूपस्यालौकिकस्यन्द्रियसन्निकर्षस्य सत्त्वादित्याशयेन शङ्कते-नन्वित्यादि । अयोग्यत्वं यदस्माभिरुक्तं तल्लौकिकप्रत्यक्षविषयत्वायोग्यत्वमेव । लौकिकप्रत्यक्षरूपस्यैव बाधस्योपक्रान्तत्वात् । तन्मूलीभूतापादनविषयस्य प्रतियोग्युपलम्भस्य लौकिकस्यैवापेक्षितत्वेन तस्यैव मया खण्डनीयत्वात् । तादृशायोग्यत्वं च उक्ताभावे अस्त्येवेत्याशयेन समाधत्ते-मैवमिति । योग्यप्रतियोगिक इति । स्वप्रतियोग्युपलम्भापादकतायोग्यप्रतियोगिक इत्यर्थः । यादृशप्रतियोगिनस्सत्त्वेन इन्द्रियसन्निकर्षादिविशिष्टेन तदुपलब्धिरापादयितुं शक्यते, तादृशप्रतियोगिक इति यावत् । संसर्गाभाव इति । अभावमात्रं विवक्षितम् । येन संसर्गेण प्रतियोगिनो वैशिष्ट्यं तदुपलम्भस्यापादक, तेन संसर्गेणावच्छिन्नप्रतियोगिताकोऽभावः प्र. त्यक्ष इति ज्ञापयितुं संसर्गपदमुक्तम् । तत्संसगावच्छिन्नत्वं च तदन्यसंसर्गानवच्छिन्नत्वरूपं बोध्यम् । तेन प्रागभावप्रतियोगितानां संसर्गानवच्छिन्नत्वेऽपि न क्षतिः । तथा च यद्युक्तप्रतियोगितात्वविशिष्टं प्रतियोगित्वं स्यात् , तदोपलभ्येतेत्यापादनासम्भवात् नोक्ताभावो लौकिकप्रत्यक्षः। उक्तं हि दीधित्यादौ 'यथा विद्यमानमपि वद्वित्वे रासभादिदेशनिष्ठाभावप्रतियोगितावच्छेदकत्वं न गृह्यते । अभावदेशविप्रकर्षादिनेन्द्रियसन्निकर्षादिरूपग्राहकाभावात् , तथा धूमवन्निष्ठात्यन्ताभावप्रतियोगितावच्छेदकत्वमपीति नानुपलब्धेः प्रतियोगिसत्त्वप्रसञ्जनप्रसञ्जितमतियोगिकरवाणयोग्यतेति तदभावो नाध्यक्ष इति । अत्रायं भावः । यद्यपि प्रतियोगितातदवच्छेदकयोस्सत्त्वेन्द्रियसन्निकृष्टत्वापत्त्या प्रत्यक्षापत्तिः । तथा पि धूमवदादेरिन्द्रियासन्निकर्षादतीन्द्रियपिशाचपरमाण्वादिरूपत्वस्यापि सम्भवाच्च। तन्निष्ठाभावानामपि तथात्वाच्च तद्धटितरूपेणोक्तावच्छेदकत्वस्य प्रत्यक्षापत्त्यसम्भवात् नोक्तरूपावच्छिन्नाभावः प्रत्यक्षः । न हि प्रतियोगितावच्छेदकतापर्याप्त्यधिकरणस्य लौकिकप्रत्यक्षापत्त्यसम्भवे अभावस्य लौकिकप्रत्यक्षम् । किञ्चाभावादिप्रत्यक्ष विना प्रतियोगिताया अपि न प्रत्यक्षापत्तिः । सम्बन्धप्रत्यक्ष सम्बन्धिप्रत्यक्षस्य हेतुत्वात् । एतेन योग्यप्रतियोगिक इत्यादेः योग्यप्रतियोगिकान्यः For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy