SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥शिवाभ्यां नमः॥ ॥ अद्वैत मञ्जरी ॥ ॥ ब्रह्मानन्दभिक्षुविरचिता अद्वैतसिद्धिव्याख्या ॥ ॥ लघु चन्द्रिका ॥ नमो नवघनश्यामकामकामितदेहिने । कमलाकामसौदामकणकामुकगेहिने ॥ १ ॥ श्रीनारायणतीर्थानां गुरूणां चरणस्मृतिः । भूयान्मे साधिकेष्टानामनिष्टानाश्च बाधिका ॥ २ ॥ अद्वैसिद्धिव्याख्यानं ब्रह्मानन्देन भिक्षुणा । संक्षिप्तचन्द्रिकार्थेन क्रियते लघुचन्द्रिका ॥ ३ ॥ विष्णुः व्यापकं जीवस्वरूपम् । मोक्ष प्राप्त इव स्वयं विजयते । कीदृशो विष्णुर्मोक्ष प्राप्त इवेत्यत्राह-अखण्डधीगोचर इति । संसर्गाविषयकमनोवृत्तिविशेपविषयीभूत इत्यर्थः । ननु, तादृशधीविषयत्वे मोक्षप्राप्तिं प्रति नोद्देश्यतावच्छेदकत्वसंभवः । उद्देश्यतावच्छेदककालावच्छिन्नत्वस्य विधेयगतत्वेन व्युत्पत्तिसिद्धस्य प्रकृते बाधात् । यदा हि तादृशधीविषयीभूत आत्मा, तदा तस्य न मोक्षः । तस्याविद्यारूपबन्धशून्यात्मरूपत्वात् । तदुक्तं वार्तिके-'अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः । इति । 'निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः।' इति च । अविद्याया अस्तमयस्संस्कारादिकार्यरूपेणाप्यनवस्थानम् । सा स्थूलरूपा संस्कारादिरूपा च । तथा च विदेहताकालीनोऽस्तमय एव मुख्यो मोक्षः । ज्ञातत्वोपलक्षित आत्मापि विदेहताकालीन एव । जीवन्मुक्तिकालीनस्य ज्ञातत्वोपहितत्वस्यापि कदाचित्संभवेन ज्ञातत्वेनोपलक्षितत्वस्य सर्वदा असम्भवात्तदुपलक्षितस्यैव मोहनिवृत्तित्वम्। जीवन्मुक्तौ संस्कारादिरूपेण मोहसत्त्वात् । स्थूलाज्ञाननिवृत्तेस्तत्वज्ञानविशेषादिमनःपरिणामरूपतासंभवेन ज्ञातात्मरूपत्वासंभवाच्च । न चो For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy