SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૫૩ परिशिष्ट ओ तस्याभूत्समराभिधश्च तनयस्तस्यापि पुत्रोर्जुन स्तस्यासीत्तनयो नयोर्जितमतिर्मीमाभिधानः सुधी॥२४॥ लालूरित्यजनिष्ट तस्य गृहिणी पद्मेव पद्मापते रिभ्योऽभूत्तनयोऽनयोश्च जसिआसंज्ञः सुपर्वप्रियः । पौलोमीसुरराजयोखि जयः पित्रोर्मनःप्रीतिकृद् विष्णोः सिन्धुसुतेव तस्य जसमादेवीतिभार्याऽभवत्॥२५॥ सद्धर्म सृजतोस्तयोः प्रतिदिनं पुत्रावभूतामुभा वस्येको वजिआभिधः सदभिधोऽन्यो राजिआह्वः सुधीः । पित्रोः प्रेमपरायणौ सुमनसां वृन्देषु वृन्दारको शर्वाणीस्मरवैरिणोरिव महासेनैकदन्ताविमौ ॥२६॥ आद्यस्य विमलादेवी देवीव शुभगाकृतिः । परस्य कमलादेवी कमलेव मनोहरा ॥२७॥ इत्यभूतामुभे भार्ये द्वयोर्बान्धवयोस्तयोः ज्यायसो मेघजीत्यासीत्सनुः कामो हरेरिव ॥२८॥ युग्मम् । सुस्निग्धौ मधुमन्मथाविव मिथो दस्राविव प्रोलस द्रूपो ख्यातिभृतौ धनाधिपसतीनाथाविव प्रत्यहम् । अन्येधुर्वृहदिभ्यसभ्यसुभगं श्रीस्तम्भतीर्थं पुरं प्राप्तौ पुण्यपरम्पराप्रणयिनौ तौ द्वावपि भ्रातरौ ॥२९॥ तत्र तौ धर्मकर्माणि कुर्बाणौ स्वभुजार्जिताम् । श्रीयं फलवतीं कृत्वा प्रसिद्धि प्रापतुः पराम् ॥३०॥ For Private and Personal Use Only
SR No.020443
Book TitleKhambhatno Itihas
Original Sutra AuthorN/A
AuthorRatnamanirao Bhimrao
PublisherDilavarjung Nawab Mirza
Publication Year1935
Total Pages329
LanguageGujarati
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy