SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir सर्वा अपि त्र्यशीतिसंख्याः 'तम्मग्गिल्लसमयम्मिति-भवचरमसमयपाश्चात्यसमयेऽयोगिकेवलिद्विचरमसमये इत्यर्थः, सत्यो भवन्ति, चरमसमये त्वसत्यः। आहारकतीर्थकरनाम्नी सर्वेष्वपि गुणस्थानकेषु भाज्ये । द्वयोः पुनर्गुणस्थानकयोः सासादनसम्यमिथ्यादृष्टिरूपयोस्तीर्थकरनाम नियमान विद्यते, तीर्थकरनामसत्कर्मणः स्वभावत एवोक्तरूपे गुणस्थानकद्विके गमनासंभवात् ।।८-९॥ (उ०)-मनुष्यगतिपश्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तितीर्थकरान्यतरवेदनीयोच्चैर्गोत्रमनुष्यायुरूपा द्वादश प्रकृतयो भवचरमसमये सन्ति, अयोगिकेवलिचरमसमयं यावद्विद्यन्ते परतोऽसत्य इत्यर्थः । शेषाः पुनरुक्तव्यतिरिक्ता अन्यतरवेदनीयदेवद्विकौदारिकसप्तकवैक्रियसप्तकाहारकसप्तकतैजसकार्मणसप्तकप्रत्येकसंहननषद्कसंस्थानषद्कवर्णादिविंशतिविहायोगतिद्विकागुरुलघुपराघातोपघातोच्छ्वासस्थिरास्थिरशुभाशुभदुर्भगसुस्वरदुःस्वरायशःकीर्तिमनुष्यानुपूर्वीनिर्माणानादेयापर्याप्तकनीचर्गोत्ररूपास्त्र्यशीतिसंख्याः 'तम्मग्गिल्लसमयम्मि' त्ति-भवचरमपाश्चात्यसमयेऽयोगिकेवलिद्विचरमसमये सत्यो भवन्तीत्यर्थः, चरमसमये त्वसत्यः । आहारकतीर्थकरनाम्नी सर्वेष्वपि स्वाधारत्वेन संभविषु गुणस्थानेषु भाज्ये । द्वयोः पुनर्गुणस्थानयोः सासादनसम्यग्मिथ्यादृष्टिरूपयोस्तीर्थकरनाम नियमान्न विद्यते, तीर्थकरनामसत्कर्मणः स्वभावत एवोक्तगुणस्थानद्वये गमनासंभवात, तत इत्थमनयोजना भावनीया । योऽप्रमत्त-13 संयतादिः संयमप्रत्ययादाहारकसप्तकबन्धं विधाय विशुद्धिवशादुपरितनगुणस्थानेषु समारोहति, यश्च तद्वन्धानन्तरमुपरितनगुणस्था| नेभ्योऽविशुद्धाध्यवसायेनाधः पतति तस्याहारकसप्तकं सर्वगुणस्थानेषु सत्तायां प्राप्यते । यस्त्वाहारकसप्तकं न बध्नात्येव, तद्वन्धं विनव | चोपरितनानि गुणस्थानान्यध्यारोहति तस्य तत्तेषु सत्तायां नावाप्यते । तथा यः कश्चिदविरतसम्यग्दृष्टयादिरपूर्वकरणभागषट्कं यावत्सम्यक्त्वप्रत्ययातीर्थकरनाम बद्धोपरितनगुणस्थानकान्यधिरोहति, कश्चिच्च बद्धतीर्थकरनामाऽविशुद्धिवशान्मिथ्यात्वमपि गच्छति CHODOHOROSODE For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy