SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथग्गण्यन्ते, तत्मक्षेपादुदयविकल्पानां नव शतानि पश्चनवत्यधिकानि भवन्ति । यदि तु बन्धकभेदेन भङ्गानां भेदो न विवक्ष्यते । तदा पञ्चविधबन्धे चतुर्विधबन्धे च ये द्विकोदयभङ्गास्ते एकरूपा एवेति द्वादशैव । ये चैककोदयभङ्गास्ते चत्वार एवेति षोडशैव, | एतेषां प्रागुक्तोदयभङ्गराशौ षष्टयधिकनवशतप्रमाणे प्रक्षेपे षट्सप्तत्यधिकानि नवशतान्युदयविकल्पानां भवन्ति । अथ मोहनीयोदया एते | गुणस्थानेषु चिन्त्यन्ते-तत्र मिथ्यादृष्टयविरतसम्यग्दृष्टिदेशविरतप्रमत्ताप्रमत्तानामष्टावष्टौ चतुर्विंशतयो भवन्ति, सासादनमिश्रापूर्वकरणेषु चतस्रश्चतस्रः, भावितचरा एता इति न भूयो भाव्यन्ते, सर्वसङ्ख्ययाऽमूद्विपञ्चाशत् , तस्याश्चतुर्विशत्या गुणने जातानि द्वादश शतान्य|ष्टचत्वारिंशदधिकानि । अन्ये चानिवृत्तिबादरसम्पराये पञ्चविधबन्धादौ षोडश सूक्ष्मसम्पराये चैक इति सप्तदश भङ्गा अधिकाः क्षिप्यन्ते । ततः सर्वेष्वपि गुणस्थानेषु सर्वसङ्ख्यया मोहनीयस्योदयाः पञ्चषष्टयधिकानि द्वादश शतानि । एत एव च भङ्गा उदीरणायामपि द्रष्टव्याः, उदयोदीरणयोः सहभावित्वात् । यद्यपि वेदत्रयसंज्वलनानां पर्यन्तावलिकायामुदीरणा न भवति, किं तु केवल एवोदयः, तथापि शेषकालमुदीरणा लभ्यत इति भङ्गसङ्ख्या न व्याहन्यते। एते चैकादयो दशान्ता उदयास्तदन्तर्गता भङ्गाश्च जघन्यत एकसामयिका उत्कर्षत आन्तमौहूर्तिकाः, तथाहि-चतुरुदयादिषु दशोदयपर्यन्तेषवश्यमन्यतमो वेदोऽन्यतरच युगलं विद्यते, वेदयुगलयोश्च मध्येऽवश्यमन्यतरन्मुहूर्तादारतः परावर्त्तते । तदुक्तं पञ्चसंग्रहमूलटीकायां-"युगलेन वेदेन वाऽवश्यं मुहूर्त्तादारतः परा | वर्तितव्यमिति” । तत एते उत्कर्षत आन्तमौहूर्तिकाः, द्विकोदयैककोदयानां चान्तमौहूर्तिकत्वं सुप्रसिद्धमेव । एकसामयिकता त्वेवंयदा विवक्षिते उदये भङ्गे वा समयमेकं वर्तित्वा गुणस्थानान्तरे गच्छति तदाऽवश्यं बन्धस्थानभेदाद्गुणस्थानभेदात्स्वरूपतो वा भिनमुदयान्तरं भङ्गान्तरं वा यातीति सर्वेऽप्युदया भङ्गाश्च जघन्यत एकसामयिकाः। For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy