SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatrth.org 13|१०७-१०८-१०९-११०-१११-११२-११३-११४-१२५-१२६-१२७-१२८-१२९-१३०-१३१-१३३-१३४-१३५कर्मप्रकृतिः १३६-१३७-१३८-१३९-१४०-१४१-१४२-१४३-१४४-१४५-१४६ । तत्रातीर्थकरकेवलिनोऽयोग्यवस्थाचरमसमये एकादश ॥१३॥ | प्रकृत्यात्मकं सत्तास्थानम् , तस्मिन्नेव समये तीर्थकृतो द्वादशप्रकृत्यात्मकं, ताश्च द्वादश मनुष्यायुर्मनुष्यगतिपश्चेन्द्रियजातित्रसबादरपर्या सुभगादेययश-कीर्तितीर्थकरनामान्यतरवेदनीयोचैर्गोत्रलक्षणाः । एता एव जिननामरहिता एकादश । सयोगिकेवल्यवस्थायामशीत्या | दीनि चत्वारि सत्तास्थानानि ८०-८१-८४-८५ । तत्राशीतिरियं-देवद्विकमौदारिकचतुष्टयं वैक्रियचतुष्टयं तैजसकार्मणशरीरे तैजस कार्मणबन्धने तैजसकार्मणसङ्घाते संस्थानषट्कं संहननषट्कं वर्णादिविंशतिरगुरुलघुपराघातोपघातोच्छवासविहायोगतिद्विकानि स्थि| रास्थिरे शुभाशुभे सुस्वरदुःस्वरे दुर्भगमयशःकीतिरनादेयं निर्माण प्रत्येकमपर्याप्तं मनुष्यानुपूर्वी नीच्चैर्गोत्रमन्यतरवेदनीयमित्येकोनस|सतिरेकादश च प्रागुक्ता इति । सैवाशीतिर्जिननामसहितकाशीतिः। अशीतिरेवाहारकचतुष्टयान्विता चतुरशीतिः। सैव जिननामान्विता पञ्चाशीतिः । एतान्येवाशीत्यादीनि चत्वारि सत्तास्थानानि ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपश्चकसहितानि चतुर्नवत्यादीनि चत्वारि सचास्थानानि भवन्ति ९४-९५-९८-९९ । एतानि च क्षीणकषायचरमसमये नानाजीवानधिकृत्य प्राप्यन्ते । एतान्येव निद्राप्रचलासहितानि यथाक्रमं षण्णवत्यादीनि चत्वारि सत्तास्थानानि भवन्ति ९६-९७-१००-१०१। एतानि क्षीणकषायगुगस्थानके द्विचरमसमयं यावन्नानाजीवापेक्षया प्राप्यन्ते । एतेष्वेव संज्वलनलोभप्रक्षेपे सप्तनवत्यादीनि चत्वारि भवन्ति ९७-९८-१०१-१०२। | एतानि सूक्ष्मसम्पराये लभ्यन्ते । एतेष्वेव संज्वलनमायाप्रक्षेपेऽष्टनवत्यादीनि चत्वारि भवन्ति ९८-९९-१०२-१०३ । एतान्यनिवृत्तिबादरसम्परायगुणस्थानपर्यन्ते लभ्यन्ते । तस्मिन्नेव गुणस्थाने तेष्वेव चतुर्षु सत्तास्थानेषु संचलनमानप्रक्षेपे नवनवत्यादीनि चत्वारि ? सत्तास्थानेषु भूयस्कारादयः DOODode १९३॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy