SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संतकम्मं एवं एगं फड्डुगं, तम्हा द्वितिखंडवोच्छेपातो खीणकसायसेसकालसमा एगेण अहिगा फड्डगा भवंति | घातिकम्माणं । 'णिद्दापयलाण हिच्चेगं ति - निद्दापयलाणं एवं चेव, णवरि एगेण फडगेण ऊणं भवति । कहं ? भण्णति-तेसिं उदयाभावातो एगं फड्डगस्स संभवो नत्थि, (अणु) दयट्ठितिगयं उदयट्ठितिसु थियुगसंकमेण | संकमतित्ति काउं ॥ ४८ ॥ ( मलय ० ) - सम्प्रति मोहनीयवर्जानां घातिकर्मणां स्पर्द्धकनिरूपणार्थमाह-'ठिखंडग'ति । क्षीणकषायस्य 'स्थितिखण्डव्यवच्छेदात्'-स्थितिघातव्यवच्छेदात् परतो यः शेषकालस्तिष्ठति तत्समानि शेषकालसमय समानि स्पर्धकानि एकाधिकानि घातिकर्मणां भवन्ति । निद्राप्रचलयोस्तु 'हित्वा' - परित्यज्य एकं चरमं स्थितिगतं स्पर्द्धकं, शेषाणि वाच्यानि, निद्राम चलयोर्हि उदयाभावात् स्वस्वरूपेण चरमसमये दलिकं न प्राप्यते किन्तु परप्रकृतिरूपेण, तेन तयोरेकं स्पर्द्धकं चरमस्थितिगतं परित्यज्यते । स्पर्धकानां चेयं भावनाक्षीणकषायाद्धायाः संख्येयेषु भागेषु गतेषु सत्सु एकस्मिंश्च संख्येयतमेऽन्तर्मुहूर्तप्रमाणे भागेऽवतिष्ठमाने ज्ञानावरणपञ्चकदर्शनावरणचतु|ष्टयान्तरायपञ्चकानां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति । निद्राप्रचलयोस्त्वेकसमयहीनम् । अत्र च कारणं प्रागेवोक्तम् । तदानीं च स्थितिघातादयो निवृत्ताः । यदपि च क्षीणकषायाद्धासमं स्थितिसत्कर्म कृतं, तदपि च क्रमेण यथासंभव - मुदयोदीरणाभ्यां क्षयमुपगच्छत्तावद्वक्तव्यं यावदेका स्थितिः शेषीभवति । तस्यां च क्षपितकर्माशस्य सर्वजघन्यं यत्प्रदेश सत्कर्म तत्प्रथमं स्थानम्, तत एकस्मिन् परमाणौ प्रक्षिप्ते सति द्वितीयं प्रदेशसत्कर्मस्थानम् । एवमेकैकपरमाणुवृद्धया निरन्तराणि प्रदेशसत्कर्मस्था| नानि तावद्वाच्यानि यावद्गुणितकर्माशस्य सर्वोत्कृष्टं प्रदेशसत्कर्मस्थानम् । इदमेकं स्पर्धकम् । द्वयोश्व स्थित्योः शेषीभूतयोरुक्तप्रकारेण For Private and Personal Use Only 52
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy