________________
Shri Mahavir Jain Aradhana Kendra
...
www.kobatrth.org...
-
Achana Shri Kailassagarsuri Gyanmandit
| काशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं भवति । इदमेकं स्पर्धकम् । एवं सम्यग्मिध्यात्वस्यापि । एवमेव च शेषाणामप्युलनयोग्यानां वैक्रियैकादशकाहारकसप्तकोच्चैर्गोत्रमनुष्यद्विकरूपाणां प्रकृतीनाम् । नवरं तासां द्वात्रिंशदधिकसागरोपमशतप्रमाणः सम्यक्त्वकालो मृलत एव न वक्तव्यः । 'लोभजसा इत्यादि-संज्वलनलोभयशाकीयोरपि एकं स्पर्धकम् । तथाहि-स एवाभवसिद्धिकप्रायोग्यजघन्यस्थितिसत्कर्मा त्रसेषु मध्ये समुत्पन्नः । तत्र च चतुष्कृत्वो मोहोपशममन्तरेण शेषाभिः क्षपितकर्माशक्रियाभिः कर्मदलिकं प्रभूतं क्षपयित्वा चिरकालं च संयममनुपाल्य क्षपणायोत्थितः । तस्य यथाप्रवृत्तकरणचरमसमये जघन्यं प्रदेशसत्कर्म । ततस्तस्मादारभ्य नानाजीवापेक्षया | एकैकप्रदेशवृद्धथा निरन्तराणि प्रदेशसत्कर्मस्थानानि तावद्वाच्यानि यावद्गुणितकांशस्योत्कृष्टं प्रदेशसत्कर्मस्थानम् । एवमेकं संज्वलन| लोभयशाकीयोः स्पर्धकम् । षण्णामपि च नोकषायाणां प्रत्येकमेकैकं स्पर्धकम् । तदपि चैवं-स एवाभवसिद्धिकप्रायोग्यजघन्यप्रदेश| सत्कर्मा बसेषु मध्ये समुत्पन्नः। ततः सम्यक्त्वं देशविरतिं चानेकशो लब्ध्वा चतुरश्च वारान्मोहनीयमुपशमय्य स्त्रीवेदनपुंसकवेदौ च भूयो भूयो बन्धेन हास्यादिदलिकसंक्रमेण च प्रभूतमापूर्य मनुष्यो जातस्तत्र चिरकालं संयममनुपाल्य क्षपणायोत्थितः । तस्य चरमखण्डचरमसमये यद्विद्यमानं प्रत्येकं षण्णां नोकषायाणा प्रदेशसत्कर्म तत्सर्वजघन्यम् । ततस्तस्मादारभ्य नानाजीवापेक्षया एकैकप्रदेश| वृद्धथा निरन्तराणि प्रदेशसत्कर्मस्थानानि अनन्तानि तावद्वाच्यानि यावद्गुणितकांशस्योत्कृष्ट प्रदेशसत्कर्म। एवमेकं षण्णां नोकषायाणां प्रत्येकं स्पर्धकम् ॥४७॥ ___(उ०)-सम्प्रत्युक्तानां वक्ष्यमाणानां च स्पर्धकानां सामान्यरूपं लक्षणमाह-सर्वजघन्यात्प्रदेशसत्कर्मस्थानादारब्धं स्कन्धेनैककेन | | कर्मस्कन्धेनोत्तरतः पूर्वसादुत्तरोत्तरेण निरन्तरं प्रदेशसत्कर्मस्थानजालं तावन्नेयं यावत् 'उप्पि' ति-उपरितनं सर्वोत्कृष्ट प्रदेशसत्कर्म
RIGOSSIGGCGSears
For Private and Personal Use Only