________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
स्कृष्टं प्रदेशसत्कर्मस्थानम् । एतानि सर्वाण्यनन्तानि । एतान्येक स्पर्धकम् । उदयचरमसमये च द्वितीयस्थितौ चरमखण्डे संक्रम्यमाणे ४ सर्वजघन्य प्रदेशसत्कर्मस्थानमादि कृत्वा पागिव द्वितीय स्पर्धकं वाच्यम् । किं च 'अहिगा पुरिस्स'त्ति-पुरुषवेदस्याधिकान्यपि स्पर्ध. कानि भवन्ति । कियन्ति भवन्तीति चेत्, उच्यते-'चे उ आवलिया' इत्यादि । अत्र द्वे आवलिके इत्यत्र तृतीयार्थे प्रथमा, 'जोगठाणेहिं 2 कसिणेहि' इत्यत्र तु तृतीया प्रथमार्थे । ततोऽयमर्थः-कृत्स्नानि योगस्थानानि सकलयोगस्थानसमुदाय इत्यर्थः, द्वाभ्यामावलिकाभ्यां द्विसमयहीनाभ्यां आवलिकाद्विसमयैदिरूपहीनरित्यर्थः, गुण्यन्ते, गुणिते च सति यावन्तः सकलयोगस्थानसमुदायास्तावन्ति स्पर्धकान्यधिकानि भवन्ति, समयद्वयहीनावलिकाद्विकसमयप्रमाणानि अधिकानि भवन्तीत्यर्थः । तथाहि-पुरुषवेदस्य बन्धोदयादिव्यवच्छेदे सति समयद्वयोनावलिकाद्विकबद्धं पुरुषवेदस्य दलिकं विद्यते, ततोऽवेदकस्य सतः संज्वलनत्रिकोक्तप्रकारेण योगस्थानापेक्षया समयद| यहीनावलिकाद्विकसमयप्रमाणानि स्पर्धकानि वाच्यानि ॥४६॥ | (उ०)-वेदेषु स्त्रीवेदपुरुषवेदनपुंसकवेदेषु प्रत्येकं स्पर्धकद्वयं भवति । तथाहि-कश्चिजन्तुरभवसिद्धिकप्रायोग्यजघन्यप्रदेशसत्क
र्मा बसेषु समुत्पद्य तत्र देशविरतिं सर्वविरतिं चानेकशः समासाद्य चतुरश्च वारान्मोहनीयमुपशमय्य द्वात्रिंशदधिकं च सागरोपमाणां शतं यावत्सम्यक्त्वमनुपाल्याप्रतिपतितसम्यक्त्वो नपुंसकवेदेन क्षपकश्रेणिमारूढः, ततो नपुंसकवेदस्य प्रथमस्थितौ द्विचरमसमये वर्तमानेनोपरितनस्थितिखण्डमन्यत्र सङ्क्रम नीतम् । तथा च सत्युपरितनी स्थितिः सर्वात्मना निर्लेपीकृता । ततः प्रथमस्थितौ चरमसमये
सर्वजघन्यं यत्प्रदेशसत्कर्म तत्पथमं प्रदेशसत्कर्मस्थानम् । तत एकैकपरमाणुप्रक्षेपेण यथोत्तरं नानाजीवापेक्षयाऽनन्तानि प्रदेशसत्कर्मस्थाKe नानि तावद्वाच्यानि यावद्गुणितकमांशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं, इदमेकं स्पर्धकम् । तथा द्वितीयस्थितौ चरमखण्डे सङ्क्रम्यमाणे
For Private and Personal Use Only