SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir कर्मप्रकृतिः ॥७॥ साधनादि प्ररूपणा Số 2829 SG ध्रुवाधवौ पूर्ववत् । तथाऽमृषामेव सप्तचत्वारिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशोदयस्त्रिप्रकारस्तद्यथा-अनादिध्रुवोऽध्रुवश्च । तथाहि-गुणितकमांशस्य स्वस्वोदयान्ते गुणश्रेणीशिरसि वर्तमानस्योत्कृष्टः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोप्यनुत्कृष्टः । स चानादिः, सदैव भावात् । ध्रुवाध्रुवौ पूर्ववत् । तथा 'मिथ्यात्वे-मिथ्यात्वस्याजघन्योऽनुत्कृष्टश्च प्रदेशोदयश्चतुर्विधः, | तद्यथा-सादिरनादिर्धवोऽध्रुवश्च । तथाहि-क्षपितकमांशस्य प्रथमसम्यक्त्वमुत्पादयतः कृतान्तरकरणस्यौपशमिकसम्यक्त्वात्प्रच्युत्य मिथ्यात्वं गतस्यान्तरकरणपर्यन्तभाविगोपुच्छाकारसंस्थितावलिकामात्रदलिकान्तसमये वर्तमानस्य जघन्यः प्रदेशोदयः। स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यजघन्यः। सोऽपि द्वितीयसमये भवन् सादिः । वेदकसम्यवाद्वा प्रतिपततः सादिः। तत्स्थानमप्राप्तस्य पुनरनादिः। ध्रुवाध्रुवौ पूर्ववत् । तथा कश्चिद्गुणितकांशो यदा देशविरतिगुणश्रेण्यां वर्तमानः सर्वविरतिं प्रतिपद्यते । ततस्तन्निमित्तां गुणश्रेणिं करोति । कृत्वा च तावद्गतो यावत् द्वयोरपि गुणश्रेण्योर्मस्तके । तदानी च कश्चिन्मिथ्यात्वं गच्छति । ततस्तस्य मिथ्यात्वस्योत्कृष्टः प्रदेशोदयः, स चैकसामयिक इति कृत्वा सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । सोऽपि ततो द्विती. यसमये भवन् सादिः । वेदकसम्यक्त्वाद्वा प्रतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः। धुवाधुवौ पूर्ववत् । एतासां च सप्तचत्वा. रिंशत्प्रकृतीनां मिथ्यात्वस्य चोक्तशेषौ विकल्पो जघन्योत्कृष्टरूपी 'द्विधा'-द्विप्रकारौ । तद्यथा-सादी अध्रुवौ च । तौ च भावितावेव । 'शेषाणां'-अध्रुवोदयानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टरूपा द्विधा ज्ञातव्याः, तद्यथा-साद | योऽध्रुवाश्च । सा च साद्यध्रुवताऽध्रुवोदयत्वादवसेया ॥७॥ (उ०)-कृता मूलप्रकृतीनां साद्यादिप्ररूपणा, अथोत्तरप्रकृतीनां तां चिकीर्षुराह-तैजससप्तकवर्णादिविंशतिस्थिरास्थिरनिर्मा SEGGSGAR ॥७॥ For Private and Personal Use Only
SR No.020438
Book TitleKarmprakrutau Uday
Original Sutra AuthorN/A
AuthorYashovijay, Malaygiri
PublisherZZZ Unknown
Publication Year
Total Pages319
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy