SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir तामपमादे शास्त्रसंवादे. विधीयमानेषु कारणिकै राज्यसारेषु व्यवहारेषु, सत्याप्यमानासु नियोगिभिलेखका दिचिन्तासु समानीतस्तत्र बालहारैरुदारसारशृङ्गारः श्रीराजहंसः कुमारः।तं च पश्चवार्षिक मरालवालमिव सकलभूपालोत्सङ्गकमलेषु संचरन्त निरीक्ष्य महामोहोन्नुह्यमाने मानसे चिन्तितवान्महीपतिः श्रीकामदेव:& "अहो । कोऽयम्, कस्य सुतः, को वेत्ति, कुतः समेतः, क्व यास्यति ततः कोऽनेन सम्बन्धः। केवलं वृथैवासी * सर्वस्नेहसम्यन्धः____एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे १॥ किश्च एगो मे सासओ अप्या नाणदंसणसंजुओ। सेसा मे याहिरा भावा सम्वे संजोगलक्खणा ॥१॥ संजोगमूला जीवेण पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंधं सव्यं भावेण वोसिरे ॥ २ ॥ इत्योधेकत्वभावनां भावयन् भूमीपतिः क्षपकश्रेणीमारूढः क्षीणेषु चतुष्वपि कर्मसु केवलज्ञानमवाप । ततो "जयतु समुत्पन्नकेवलज्ञानश्रीकामदेवराजर्षिः" इत्याकाशवाणीमुच्चरन्त्या शासनदेवतया दत्तो वेषः श्रीकामदेवमहामुनिः केवलानन्दमहोत्सवान्तरमहो किमेतदिति साश्चर्यै राजसहस्रैरनुगम्यमानो महीमण्डले चिरं विहत्यानेकलोकान्मतिबोध्य महोदयपदं भेजे। भRESOUS55 For Private and Personal Use Only
SR No.020434
Book TitleKamdev Nruppati Katha
Original Sutra AuthorN/A
AuthorMerutungasuri
PublisherHemchandracharya Sabha
Publication Year1928
Total Pages52
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy