________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्येष्वपि प्राधान्येन सात्वतादिसंहितात्रयं निर्दिश्यते- सात्वतं पौष्करं चैव जयाख्यं च तथैव च । एवमादीनि दिव्यानि शास्त्राणि हरिणा स्वयम् । मूलवेदानुसारेण प्रोक्तानि हितकाम्यया ।' इति ( ईश्व० अ० १) । स्पन्दमदीपिकाकारेणापि श्रीपौष्करायां,' 'श्रीसावतायां,' 'श्रीजयायाम् ' इति श्रीशब्दपूर्वकं निर्दिशता तिसृणामासां प्राशस्त्यं व्यज्यते । प्रचारश्च दिव्येषु भगवन्मन्दिरेष्वासामेव समधिकः । तथा च वचनमपि-' सात्वताचं त्रिकं चैतत् व्यापक मुनिसत्तमाः। ........... एतत्तन्त्रत्रयोक्तेन विधिना यादवाचले। श्रीरङ्गे हस्तिशैले च क्रमात संपूज्यते हरिः ।' इति (ईश्व० अ० १ ) । अथ कालेन तत्र तत्र सात्वतनिष्ठरीश्वरसंहिता पौष्करनिष्ठैः पारमेश्वरसंहिता जयानिष्ठैः पारसंहिता क्रमात्तत्तद्विवरणरूपतयाऽभिमता समादृता नाम । विवरणस्वरूपतयाऽभिमतानामासां स्वरूपविमर्शे वक्तव्यं बह्वस्तीति न तद्विचार इदानीमाद्रियते । ग्रन्थशैलीपालोचनायामप्यासां प्राचीनत्वमवगम्यते । प्रसङ्गादिह किञ्चिदुच्यते
तस्यास्य पाञ्चरात्रस्य प्रामाण्येन परिग्रहे । मतभेदो वैदिकेषु चिरादेवानुवर्तते ॥ श्रुतिस्मृतिपरैः कैश्चित्कर्ममार्गावलम्बिभिः । श्रुत्यन्तनिरतैरन्यैर्ज्ञानमार्गावलम्बिभिः ।। पाश्चरात्रमिदं तन्त्रं प्रतिक्षिप्तं बलादहिः । समाहतं भागवतैर्वासुदेवपरायणैः ।। प्रवर्तमानं परितः प्रतिरुद्धं पदे पदे । वैदिकाग्रेसरैः कैश्चित् समुन्नीतं कथञ्चन ॥ भारते द्राविडे देशे कथमप्यद्य जीवति । केचित् त्रयीपथात् बाह्यान् मत्वा भागवतान् बुधान् । नास्य प्रकर्ष कमपि मन्यन्ते तत्परिग्रहात् । यत्रय्यन्तमतं ख्यातं यच्च भागवतं मतम् ।। ऐकरस्यं तयोर्व्यक्तं गीतायां किं न दृश्यते । नन्विष्टमौपनिषदमव्यक्तात्मानुचिन्तनम् ॥ हिरण्यश्मश्रुरित्यादिव्यक्तोपास्तिरपि श्रुता । तयोव्यक्तोपासनस्य श्रेष्ठयं भगवतो मतम् ।। तथा च गीतावचनान्येतान्यत्र निबोधत ।
For Private and Personal Use Only