SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shrik Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org प. ३३ ] योगाख्यानम् नेत्रनासाननाख्यस्य ततश्चान्यक्तभास्वरम् । मन्त्रान्ते केवलं वाऽथ वषट् ध्यायेत्खरन्ध्रगम् ॥ ७८ ॥ पाक्रमेत्परमात्मानं त्यक्त्वा पिण्डमिमं मुने । परिपकसमानं च आश्रयेच्छाश्वतं पदम् ॥ ७९ ॥ इत्येतत्कथितं सर्व पंचरात्रार्थमुत्तमम् । सर्वस्वमिव विभेन्द्र रक्षणीयं प्रयत्नतः ॥ ८०॥ सर्वोत्तमा संहितैषा सर्वविज्ञानदीपिका । नाख्येया दुष्टबुद्धीनां नराणां कलुषात्मनाम् ॥ ८१॥ मत्सराणामभक्तानां शठानां छद्मचारिणाम् । गर्वान्मे शास्त्रसद्वस्तुनिन्दकानां विशेषतः ।। ८२ ॥ मद्भक्तदूषकाणां च शुष्कतकरतात्मनाम् । शास्त्रापकर्तृणामन्यदर्शने भावितात्मनाम् ॥ ८३ ॥ देयं विविक्तबुद्धीनां स्वधर्मनिरतात्मनाम् । संसारभयभीतानां मद्भक्तिनिरतात्मनाम् ॥ ८४ ॥ मच्छासनप्रपन्नानां ये पश्यन्ति सदा मुने । मद्भापिनो मत्समयादृष्टया चातिविशुद्धया ॥ ८५ ॥ तेषां वाच्यमिदं शास्त्रं दीक्षां कृत्वा यथाविधि । प्रदश्य मन्त्रसंघ वा पूजितं मण्डलं पुरा ॥ ८६ ॥ शास्त्रार्थमनुवक्तव्यं शास्त्रमादौ प्रपूज्य च । येनाशु विविधा सिद्धियोर्भवति शाश्वती ॥ ८७ ॥ इति श्रीपाञ्चरात्रे जयाख्यसंहितायां योगाख्यानं नाम त्रयस्त्रिंशः पटलः । समाप्तेयं जयाख्यसंहिता। For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy