SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पं. ३३ ] www.kobatirth.org ४६ योगाख्यानम् सगर्भ योगमातिष्ठेभिर्गर्भ वा सुयन्त्रितः । " ततः प्रमथद्वायुं प्राणाख्यं चित्तसंयुतम् ॥ २३ ॥ रेचकादिचतुर्भेदैः प्राणायामः प्रकीर्तितः । चित्तं जयेत्सदा यत्नाद्दुर्जयं देवदानवैः ॥ २४ ॥ यद्यप्यभ्यासवैराग्यैश्चित्तं संयम्यते बलात् । तथापि यत्नादातिष्ठेत्पूर्वाधीनं तु वर्जयेत् ॥ २५ ॥ द्विविधास्ते तु विज्ञेयास्सन्निकृष्टा मनोगताः । सन्निकृष्टाः स्थानगताश्चित्तोपा (चैत्ता वा ? ) सनया कृताः ॥ २६ ॥ न दंशमशकाकीर्णे निश्शब्दे गन्धवर्जिते । निमीलिताक्षस्सन्तिष्ठेत्सर्वेन्द्रियविवर्जितः ॥ २७ ॥ एवं परित्यजेत्सर्वानुपाधीन्सन्निकर्षजान् । वासनोत्थांश्च विविधान्सम्यग्लक्ष्यं समास्थितः ॥ २८ ॥ प्रत्याहरेत् सदा चित्तं विक्षिप्तं सर्ववस्तुषु । तामसं तत्तु बोद्धव्यं चित्तं सर्वत्रगं सदा ॥ २९ ॥ गतं रागादितो ज्ञेयमभ्यासाद्राजसं तु तत् । सात्विकं कथ्यते चित्तं संश्लिष्टं लक्ष्यगोचरे ॥ ३० ॥ संलीनं च ततो ज्ञेयं गुणातीतं तपोधन । ध्यानमेवंविधं कुर्यात्सगर्भ प्राणनिग्रहे ॥ ३१ ॥ उच्यते च ततो भूयस्त्रिविधं योगिनां हितम् । सकलं निष्कलं विष्णुं तृतीयं पररूपिणम् ॥ ३२ ॥ अन्यत्र त्रिविधं ज्ञेयं शब्दं व्योम सविग्रहम् । विग्रहं देवरूपस्य लक्ष्यरूपं विचिन्तयेत् ॥ ३३ ॥ ध्यानमेवं समुद्दिष्टं यावद्वचोमान्तिमं भवेत् । तावच्च भावयेल्लक्ष्यं यावल्लक्ष्यं न भावयेत् ॥ ३४ ॥ भावे भावमापत्रे स्वस्वभावः परः स्मृतः । स्थूलं पूर्व समभ्यस्येत्ततः सूक्ष्मं ततः परम् ।। ३५ ।। एवं विलीयते चित्तं लक्ष्यं चोपाधिभिस्सह । विग्रहं देवदेवस्य ध्यायेत्पद्यगोचरे ॥ ३६ ॥ ततोऽन्यच्चिन्तयेल्लक्ष्यं स्थूलं सूक्ष्मं ततः परम् । एवमभ्यस्यमानस्य गुणोत्कर्षः प्रजायते ॥ ३७ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ३६१
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy