SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. ३१-३२ ] www.kobatirth.org साधनविधिः मन्त्री तिष्ठति देहे स्वे स्वयमन्ते कलेवरम् । त्यक्त्वा तु मुनिशार्दूल यायाद्विष्णोः परं पदम् ॥ ४६ ॥ यद्गत्वा न निवर्तन्ते पुनरस्मिन्भवार्णवे । सत्यादिपंचकं विष पिण्डस्सप्ताक्षरस्तथा ॥ ४७ ॥ आराधितस्तदर्धेन जपहोमादिकैः शुभैः । ४५ Acharya Shri Kailassagarsuri Gyanmandir न हि सामान्यसिद्धीनां योक्तव्यं मन्त्रवादिना ॥ ४८ ॥ आराधितस्तु विधिना स्वयमेव ददाति च । अभीप्सितं साधकानामन्ते मोक्षं च शाश्वतम् ॥ ४९ ॥ इति श्रीपांचरात्रे जयाग्ट्ट्यसंहितायां उपाङ्गसाधनं नाम एकत्रिंशः पटलः । नगला अथ साधनविधिर्नाम द्वात्रिशः पटलः । [ विघ्नेशमन्त्रसाधनप्रकार: ] यः पुरा कथितचैव मन्त्रो वैनायको मया । तस्येदानीं समासेन साधनं शृणु नारद ॥ १ ॥ कृत्वा न्यासं षडङ्गं तु इष्ट्वा हृत्कमलान्तरे । ततः कोणत्रयेणैव युक्तं कुर्याच्च मण्डलम् ॥ २ ॥ द्वारत्रयान्वितं चैव तन्मध्ये त्रिदलं लिखेत् । कमलं तत्र तन्मध्ये पूर्वोक्तविधिना द्विज ॥ ३ ॥ इष्ट्वा हुत्वा ततः कुर्याद्रूपं सम्यक्तयाऽऽत्मनः । यायाद्वनप्रदेशं तु जपेल्लक्षद्वयं मुने ॥ ४ ॥ लक्षमेकं तु जुहुयात्पुष्पाणां मुनिसत्तम । अयुतं द्वे च समिधां सितार्कस्य विशेषतः ॥ ५ ॥ घृतस्यायुतमेकं तु दद्यात्पूर्णाहुतिं मुने । ततः प्रत्यक्षतामेति साक्षादेवो विनायकः ॥ ६ ॥ सिद्धोऽस्मीति च वै बूते कुरु कर्म यथेप्सितम् । तदा च साधकवर सर्व साधयते क्षणात् ॥ ७ ॥ [ विघ्नेशमन्त्रसिद्धिजं सामर्थ्यम् ] राजार्कमूलमादाय कृत्वा च शतमन्त्रितम् । गणेशमन्त्रेण ततो मन्त्रयित्वा समापयेत् ॥ ८ ॥ For Private and Personal Use Only ३९३
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy