SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'ऋग्वेदं भगवोऽध्यमि यजुर्वेदं सामवेदं ....... वाकोवाक्यमेकायनम्' इति, अत्र एकायनपदमेकायनशाखाबोधकम्, इति च पाहुः । प्राचामाचार्याणां पक्षे नाक्षिप्यते किमपि । परमिदमुदाहरामः स्यायोग्यं भूमिकाया यत् ।। एतेन संभाव्यते नामैतावत्-याः संहिताः सात्वतपौष्कराधास्तासां मूलभूतः कश्चन शास्त्रविभागस्ताभ्योऽपि प्राक्तनोऽध्ययनक्रमप्राप्तः श्रुतित्वेन तत्र तत्र व्यपदिश्यमान आसीदिति, यदीयान्येव कानिचिद्राक्यान्येकायनशाखावाक्यतया श्रुतप्रकाशिकायां समुदाहियन्ते- सर्वज्ञः सर्वदर्शी सर्वेश्वरः सर्वशक्तिः समृद्धिमानेवाद्धिरन्यून आयो वशी स्वाधीनोऽ नादिरनन्तो व्यपगतनिद्राभयकोधतन्द्रिर्व्यपगतेच्छातमालमव्याधिर्निर्दोषो निरधिष्ठो निरवद्यः। 'सर्वज्ञः सर्वदर्शी सर्वेश्वरः सर्वशक्तिः समृद्धिमानेव निर्दोषो निरधिष्ठो निरवधः ये भगवन्तं वासुदेवमेवं विदुस्त एव तं विदुः।' 'नासिद्धस्य कृतमस्तीह किञ्चित् नासंयतेष्विन्द्रियेष्वेव सिद्धिः। न संयमोऽस्त्यपरित्यज्य कामान् कामत्यागो नान्तरेणाप्रमादम् ॥ अप्रमादो ज्ञानमयो ज्ञानं प्रकृतिसंहितम् । प्रकृतौ कर्म संदध्यात् तदा नित्यं कृतं भवेत् ।' इत्यादीनि-उत्पत्त्यसंभवाधिकरणटीकायाम् । तथा स्पन्दप्रदीपिकायां स्वोक्तार्थे पञ्चरात्रवचनं प्रमाणयता क्रैस्ते दशमशतके स्थितेनोत्पलेनैवं निर्दिश्यते-'पाश्चरात्रश्रुतावपि-यद्वत्सोपानेन प्रासादमारुहेत् प्लवेन नदी तरेत् तद्वच्छास्त्रेण हि भगवान् शास्ताऽवगन्तव्यः' इति (स्पन्दप० प० २);तथा 'पाश्च. रात्रोपनिषदि च-ज्ञाता च ज्ञेयं च वक्ता च वाच्यं च भोक्ता च भोग्यं च इत्यादि' इति, (स्पन्दन० ५० ४०) । एवंजातीयकान्यन्यान्यपि श्रुतिच्छायापन्नानि वचनानि तथा च पाश्चरात्रे' इति सामान्यशब्देन संगृह्य प्रदर्श्यन्ते-'यदाऽऽत्मनि सर्वभूतानि पश्यति आत्मानं च तेषु पृथक् च तेभ्यः तदा मृत्योर्मुच्यते जन्मतश्च' (स्पन्दम० ५० २९) 'त्रिविधो दोपः स्वभावजस्तामसो विकल्पजो राजसः' (स्पन्द प० ८) 'यावत्तेनैव देहेन वशीभवति भगवद्भूतस्तदा सर्वज्ञो भवति सर्वदर्शी सर्वेश्वरः सर्वशक्तिः इत्यादि' (स्पन्दन १०८) 'तद्यथाऽग्निर्नाम कस्मिंश्चिद्दाह्ये नान्यत्किञ्चिदुपादत्ते तेन धक्ष्यामीति स्वयं दहति एवमयमात्माऽनुपादायकारी स्वात्मनैव सर्वकरः' इति, (स्पन्दम०प०२२) इति । अन्यानि वत्तत्संहितावचनानि सात्वतायां जयायामिति तत्तन्नामो For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy