SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२३ प. २८] अङ्गमन्त्रसाधनम् लिखित्वा [ तच ] सूत्रेणादेष्टय ताम्रपुटान्तरे । कृत्वा बध्वा भुजे वामे मन्त्री ययत्समीहते ॥ ९६ ॥ तत्तदेव परा(समा?)मोति दत्वा वाऽन्यस्य कस्यचित् । ग्रहभूतादयः सर्वे न बाधन्ते च तं नरम् ॥ ९७ ॥ प्रयच्छति सदारोग्यं मन्त्रस्यास्य प्रभावतः। [नेत्रमन्त्रसाधनप्रकार: ] अधुना नेत्रमन्त्रस्य विधानं वच्मि सिद्धिदम् ॥ ९८ ॥ पूर्वोक्तेन विधानेन हृयागे तु कृते सति ! मण्डलान्तर्गतं कृत्वा पीतरक्तं तु पङ्कजम् ॥ ९९ ।। आहूय तत्र मध्ये तु नेत्रं हादम्बुिजस्थितम् । होमावसानं संपूज्य होममाज्येन शस्यते ॥ १००॥ पीतैसिायकैश्चैव ताम्रवर्ण तिलान्वितैः। पूर्णा हुत्वा ततः कृत्वा तद्रूपं विजनं व्रजेत् ॥ १०१॥ दिक्चक्रं भ्रममाणस्य वीक्षमाणो दिवाऽनिशम् । सूर्यस्य मुनिशार्दूल जपेल्लक्षत्रयं व्रती ॥ १०२ ।। होम कुयोजपान्ते तु केवळेन घृतेन तु। अयुतद्वितयं मन्त्री सुरदाहरसेन च ॥ १०३ ॥ मधुमिश्रेण चान्ये वे एक सिद्धार्थकैस्तिलैः। ततः पूर्णा समापाथ समांशोत्थैघृतादिकैः ॥ १०४ ॥ अवसाने तु पूर्णायाः पश्येन्मन्त्रेश्वरं तु तम् । दीप्तलोचनमार्गस्था(मग्रस्थ?)माज्ञां दत्वाऽथ स व्रजेत् ॥१०५ ।। ततोऽखिलानि वै कुर्यान्मन्त्री कर्माणि भूतले । [नेत्रमन्त्रसिद्धिजं सामर्थ्यम् ] स्रोतोऽञ्जनं समादाय कृत्वा द्विशतमन्त्रितम् ॥ १०६ ॥ सप्तवारं च सौवर्णी शलाकामभिमन्त्र्य च । स्वनेत्रयुगलं तेन रअयेदञ्जनेन तु ॥ १०७ ॥ पश्पेद्भूमिगतं सर्व यत्किञ्चिन्निधिपूर्वकम् । समुद्रतोयमध्यस्थं नागलोकं च पश्यति ॥ १०८॥ निश्शेष रत्ननिचयं समादातुं च तं यदि । व्रजेद्वा नागलोकं च ददाति विवरं जलम् ॥ १०९ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy