SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१८ जयाख्यसंहिता [प. २८ समेत्य प्रार्थयेत्तस्य प्रसादं कुरु मे प्रभो । गृहाण मे धनं राष्ट्रं दासीदासगजादिकम् ॥ २६ ॥ तस्मिन्नेव क्षणस्यान्ते समायाति रसातलात् । शतशो नागकन्याश्च रसायनकरोधताः ॥ २७ ॥ पिबेदं मुशुभं पानमस्माकं रमयस्व च ।। याताच्चतुर्थदिवसादारभ्येदं क्षणं प्रभो ॥ २८ ॥ न प्राप्नुमो धृति तत्र पाताले भवतो विना । किंनर्यश्वाथ यक्षिण्यस्तथा विद्याधरस्त्रियः ॥ २९ ॥ 'साभिलाषाः समायान्ति साधकं प्रार्थयान्त च । क्रीडते चेच्छया तासां स्ववशः स च नारद ॥ ३० ।। यावदात्मसमीहा च पीत्वा पानवरं च तत् । शताभिमन्त्रितं कृत्वा निर्मलं भाजने जलम् ॥ ३१ ॥ अत्रानुसन्धयेन्मन्त्रमिमं संपूज्य यत्नतः । भविष्यद्भूतभव्येषु संशयो यस्य कस्यचित् ॥ ३२ ॥ तत्तदर्शयते मन्त्रः स्वदेशोत्थैः स्फुटाक्षरैः । नाम्न अन्तर्गतं मन्त्रं वशीकारे तु नारद ॥३३॥ जपेदाकर्षसिद्धौ वा साष्टं सूर्योदये शतम् । यःकश्चित्पुरुषो विष नारी वा मनसेप्सिता ॥ ३४ ॥ जपान्ते द्रुतमायाति मन्त्रस्यास्य प्रभावतः । लिखेन्मृगमदेनैव पयसा कुङ्कुमेन तु ॥ ३५ ॥ सितकर्पटखण्डे वै दुर्वाकाण्डैदिनोदये । त्रिकोणपुरमध्यस्थं त्रिपत्रकमलं मुने ॥ ३६ ॥ हृदयाचं तु संयुक्तमभिधानं तदन्तिके । तन्मूर्तिमन्त्रसंयुक्तं दद्यात्पत्रत्रये तथा ॥ ३७॥ यो धारयति विपेन्द्र रक्तसूत्रेण वेष्टितम् । वस्त्रैवा वाहिौ ?) गले वाऽथ लम्बमानं तु वा हृदि ॥ ३८ ॥ यत्र तत्र जयस्तस्य पूजा भवति पुष्कला। व्यालैाधैर्गजैश्चैव तस्करै?रविक्रमैः ॥ ३९ ॥ I देवयोषा: A For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy