SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प. २७ [ मायाया अङ्गमन्त्रः ] पोदा प्रधानमादाय कालपावकसंस्थितम् ॥ १३९ ॥ ततस्तच्चाङ्कयेत्माग्वत्स्वरैः प्राक् शिरसा तदा । षडेतान् हृदयादीन्वै विद्धि शेषं महामुने ॥ १४० ॥ [सखीमन्त्राः] भधानोग्य ध्रुवो रस्थो मद(दम' ?)नो पोऽनलोर्ध्वगः । आदेयास्त्वय सर्वेषामोदनानन्दको क्रमात् ॥ १४१ ॥ भुवनो योगदाता च व्यापी चान्द्री चतुष्वपि । मोहिनी भ्रामणी दुर्गा प्रेरणी च महामुने । १४२ ।। मायासख्यः स्मृता घेताश्चत्वारो रक्तभासुराः। [सखीनां ध्यानप्रकारः ] लावण्येन तु वीर्येण सौन्दर्येण च तेजसा ॥ १४३ ॥ मायाख्येन तु संयुक्ताः सितवस्त्रानुलेपनाः। चामराङ्कशहस्ताश्च बद्धपद्मासनस्थिताः।। १४४ ॥ [ मायाया अनुचरमन्त्राः ] प्रधानं गोपनोपेतं तं तु वै केवलं त्वतः । शङ्करं कमलं चैव क्रमाद्याच्च केवलौ ॥ १४५ ॥ सर्वेषामुपरि ब्रह्मन् व्यापी चान्द्री च विन्यसेत् । मागेकैकस्य चोङ्कारमन्ते संज्ञानमोयुतम् ।। १४६ ॥ मायामयो महामोहः शम्बरश्च कलीश्वरः। चत्वारोऽनुचरा घेते ध्येयास्त्वलिकुलप्रभाः॥ १४७॥ _ [मायानुचराणां ध्यानप्रकारः ] चतुर्भुजा महाकायाः सौम्यवाः स्मिताननाः । केयूराभरणोपेताः पीताम्बरधरास्तु वै ॥ १४८॥ हारनूपुरसंयुक्ता नानाकुसुमभूषिताः । तुषारधूलिधवलाः खङ्गपाशसमुद्यताः॥ १४९ ॥ बाणं कार्मुकमन्यस्मिन्नातपत्रं करद्वये । एवमुद्धत्य विधिवन्मायीयां मन्त्रसन्ततिम् ॥ १५० ॥ [न्यासविधिः ] स्वहस्ते पूर्ववन्यस्य विग्रहे तदनन्तरम् । 1 दमनो वै नलो A For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy