SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावना इदं तदोपनिषदब्रह्मोपास्त्यवबोधकम् । श्रेयस्कामैरुपादेयं पञ्चरात्रं प्रशासनम् ॥ अनादिनिधनं यत्र शुद्धं संविन्मयं परम् । वासुदेवादिभेदेन मत्रमूर्त्यात्मनोच्यते ॥ मन्त्रमूर्त्यात्मनस्तस्य जपोपासनभेदतः । सर्वार्थसिद्धिः सर्वेषां सुगम्या यत्र कीर्त्यते ॥ जयन्तु ते प्रमातारः प्रमाणगतिकोविदाः। मामाण्यमागमानां यैर्भुवि संरक्षितं पुरा ॥ इदमिदानीमनभिज्ञेनापि मया कौतुकात् किञ्चिदावेद्यते । इदं हि पञ्चरात्रं त्रयीपरिरक्षणपरैः कैश्चित् सर्वथा प्रतिक्षिप्तमामाण्यमपरैश्च कैश्चिअय्यन्तपथमवगाहमानैरंशतः परिगृहीतप्रामाण्यमंशतः समारोपिताप्रामाण्यं भगवता बादरायणेन शारीरकमीमांसायामनूद्यमानमनूद्यमानं च श्रेयःसाधनतया विशेषतो ( भगवता व्यासेन ) महाभारते शान्तिपर्वणि मोक्षधर्मे भारते देशेऽस्मिस्तैस्तैराचार्यैराद्रियमाणं वहोः कालादनुवर्तते । अनेकसंहितात्मना पविततस्यास्य प्रथमः प्रवक्ता नारायण इति सांप्रदायिकः पक्षः। अत्र च मूल 'इदं महोपनिषदं चतुर्वेदसमन्वितम् । साङ्ख्ययोगकृतान्तेन पञ्चरात्रानुशन्दितम् ॥ नारायणमुखोद्गीतं नारदोऽश्रावयत्पुरा ।" इत्यादि भारतवचनम् । इदं च पाश्चरात्रमनेकममाणसमधिगतमहिमोत ख्यापयन्तः पाश्चः स्मृतीतिहासपुराणवचनानीमान्यनुवदन्ति " ओङ्काररथमारुह्य मनः कृत्वा तु सारथिम् । ब्रह्मलोकपदान्वेषी याति विष्णोः परं पदम् ।। पाश्चराने तथा ह्येष भगवद्वाचकः स्मृतः । बलं वीर्य तथा तेजस्विमात्रेति च संज्ञितः ॥ ज्ञानेश्वर्ये तथा शक्तिस्त्रिस्वभाव इति स्मृतः । सङ्कर्षणोऽथ प्रद्युम्नो ह्यनिरुद्धस्तथैव च ।। For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy