SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २६ ] मूलमन्त्रसाधनम् २९३ [ वैखरीसद्धिः ] विवरद्वारमासाद्य स्थण्डिलं चोपलेपयेत् । इष्ट्वा तु विधिना मन्त्रं कुर्याद्धोमं समाहितः ॥ ५६ ॥ तिलेन तु घृताक्तेन महिषाक्षेण वै पुनः । क्षीरवृक्षसमिद्भिर्वा दूर्वाकाण्डैरभावतः ॥ ५७ ॥ लक्षमात्रे हुते ह्याशु वैखरी सिद्धिमानुयात् । भित्वा तु सत्वयन्त्राणि प्रविशेद्विवरोत्तमम् ॥ ५॥ पीत्वा रसायनं दिव्यं नारायणबलो भवेत् । क्रीडने कन्यकायुक्ते यावदाभूतसप्लवम् ॥ ५९॥ [खड्गसाधनम् ] भूमिभागे समे लिप्से रोचनां 'कुङ्कमैर्युताम् । लिखेत् त्रिंशागुलं खड्गं स्पष्टं साङ्गं मनोरमम् ॥ ६० ॥ पूर्वोक्तेन विधानेन इष्ट्वा तत्र जनार्दनम् ।। मुष्टिस्थाने करं स्थाप्य जपेल्लक्षं समाहितः ।। ६१ ॥ युक्ताहारविहारो हि युक्तस्वप्नो ह्यखेदवान् । यावदुत्तिष्ठते खड्गो मुष्टिना ग्राहयेत्ततः ॥ ६२ ॥ तं गृहीत्वा तु सर्वेषां विद्यानामधिपो भवेत् । विद्याधराणां सर्वेषां चक्रवर्तित्वमानुयात् ॥ ६३ ।। [अञ्जनादिसाधनम् ] पूर्वोक्तेन विधानेन पूजयेन्मन्त्रनायकम् । रोचनां शङ्खशुक्तौ तु गृहीत्वा शङ्खमुद्रया ॥ ६४ ॥ तावत्परिजपेन्मन्त्रं यावज्वालां प्रमुञ्चति । तन्मध्ये दृश्यते कान्ता कन्यका कामरूपिणी ॥ ६५ ॥ सिद्धास्मीति वदेत्सा तु कुरु कार्य यथेप्सितम्। अनेनैव विधानेन अञ्जनादीनि साधयेत् ॥ ६६ ॥ [गुलिकासाधनम् ] रोचनां कुलमं चैव हरितालं मनश्शिलाम् । चक्रांकां चौषधी तत्र पञ्चमां विनियोजयेत् ॥ ६७॥ । पुष्पं A For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy