SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८४ जयाख्यसंहिता [प. २५ देवतायतनारामे वैष्णवे तु विशेषतः । [वैष्णवारामतः क्रीडाथै फलपुष्पादिहरणे प्रायश्चित्तम् ] क्रीडार्थ तु तदारामात्पत्रपुष्पफलाहृतिम् ॥ १०३ ॥ यः कुर्यात्स द्विजश्रेष्ठ सिंहस्याष्टशतं जपेत् । [ नग्नीभूय स्नानाचरणे प्रायश्चित्तम् ] वीक्षमाणो 'दिवि दिशोऽक्रमे स्नायादिगम्बरः॥ १०४ ॥ हृन्मत्रं तु शतं साष्टं जपेत्स मुनिसत्तम। [वृद्ध-गुर्वपचारे प्रायश्चित्तम् ] वृद्धानां च गुरूणां च सनिधौ वा तदाऽऽसने ॥ १०५ ॥ उपविष्टः शतं साष्टं प्रद्युम्नं च जपेद्हृदि । गुरूणामपहासे तु कृते वाऽश्लीलभाषणे ॥१०६ ।। [ दुष्टेन मनसा गुरुभार्या-सुतयोर्दर्शने प्रायश्चित्तम् ] दुष्टेन मनसा दृष्ट्वा गुरोर्भार्या सुतामथ । सिंहमन्त्र जपेन्मन्त्री स्नातः पञ्च शतानि वै॥ १०७॥ [स्त्रीशूद्रादिवधे प्रायश्चित्तम् ] स्त्रीशूद्रबालकान्हत्वा कामतोऽकामतोऽपि वा। द्वेऽयुते ह्ययुतं साष्टं जप्त्वा यागेन शुध्यति ।। १०८ ॥ सच्द्रघातनाचैव पूर्वोक्तद्विगुणं क्रमात् । [ आलये चण्डालप्रवेशे प्रायश्चित्तम् ] चण्डालपूर्वकः कश्चित्पविष्टो यदि मन्दिरम् ॥ १०९ ।। सन्त्यजेन्मृण्मयान्सर्वान् भाण्डानप्यस्नवारिणा । पोक्षणीयकृतस्नानस्तत्रस्थः कपिलं जपेत् ॥ ११० ॥ शतानि द्वादश मुने तत्र सर्व च शुध्यति । [रजकादीनां गृहे प्रवेशे प्रायश्चित्तम् ] रजकचर्मकारश्च कामतोऽकामतो गृहे ॥ १११ ॥ संविशेदस्त्रतोयेन मोक्षयच्च शतं जपेत् । [नियतानुष्ठानस्य विष्णुमयस्य सिद्धस्य सदा:शुद्धयादिविशेषकथनम् ] सूतके मृतके चैव नित्यं विष्णुमयस्य च ॥ ११२ ॥ 1 वा विदिशो मूत्रे A. CL. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy