SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प. २४-१५ ] प्रायश्चित्तविधिः पूर्णाहुतिमदानेन ततः प्रतिकृतिं दहेत् । तस्माच्चैवाग्निकुण्डात्तु मत्रे चोत्थापिते सति ॥ १०३ ॥ पश्चात्स्नानादिकं सर्व पूर्वोक्तं तु समाचरेत् । समस्तदोषशान्त्यर्थं प्रायश्चित्तं चरेत्ततः ॥ १०४ ॥ स्वस्थोऽन्यस्मिन्दिने विप्र समर्थो वाऽथ तद्दिने । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां संस्काराख्यानं नाम चतुर्विंशः पटलः | अथ प्रायश्चित्तविधिर्नाम पञ्चविंश: पटलः । नारद:-- 1 न्त्रोज्झित S. भगवन् श्रोतुमिच्छामि प्रायश्चित्तविनिर्णयम् । कृताकृतानां सर्वेषां शान्तये वैष्णवस्य च ॥ १ ॥ श्रीभगवान् मार्गस्थो मुनिशार्दूल लुप्ताचारो व्रजयधः । पालनीयस्त्वतस्तस्मादाचारः साधुसेवितः ॥ २ ॥ दैवाद्रोगात्तथा मोहवशाद्दोष उपागतः । जपेन क्षालनीयोऽसौ दानेन हवनेन च ॥ ३ ॥ तपसाऽपि मुनिश्रेष्ठ ज्ञात्वा कर्मबलाबलम् । [ सन्ध्यालोपे प्रायश्चित्तम् ] आरम्भसन्ध्या लोपेषु मूलमङ्गसमन्वितम् ॥ ४ ॥ सत्यादिपञ्चकोपेतं सरुजश्च सकृत्सकृत् । अरुजः सत्यबीजं तु शतमष्टाधिकं जपेत् ॥ ५ ॥ जपावसानात्तत्कुर्यात्सन्ध्याकर्म द्विजाखिलम् । [ सन्ध्यात्रयलोपे प्रायश्चित्तम् ] लुप्ते सन्ध्यात्रये चैव नीरुजस्तु जपेत्सदा ॥ ६ ॥ षट्शतानि तु मूलस्य मूर्तिमन्त्रान्वितस्य च । सरुजश्वाङ्गषङ्काव्यं मूलमूर्तियुतं त्रिधा ॥ ७ ॥ जपेद्वा नित्यशान्त्यर्थमन्येषां दोषमाप्नुयात् । [ अनेकदिनेषु सन्ध्यालोपे प्रायश्चित्तम् ] अनेकदिनशो भ्रंशः सरुजस्य यदा भवेत् ॥ ८ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २७५
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy