SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ जयाख्यसंहिता [प. २४ [ अथ स्नानविधानम् ] तत्र संरक्षकान्दत्वा गुरुयायाजलाशयम् । सचेलं जलमाविश्य मनसा चोपसंहरेत् ॥ ६३ ॥ पूर्वोक्तं विग्रहन्यासं स्नात्वाऽथ विधिना ततः । स्नानमाचमनाचं तु कृत्वा दधान्जलाञ्जलिम् ॥ ६४ ॥ उत्तीर्य परिधायान्यदम्बरं शुचि निर्मलम् । [गुर्वादिभिः कर्तव्यो जपविधिः ] पामुखस्त्वासने स्थित्वा मनसा नहरिं मुने ॥ ६५ ॥ जपेदष्टाधिकं भक्त्या सहस्रं ध्यानसंयुतम् । वोढारस्तु तदर्धे च तदर्ष भाण्डवाहकाः ॥ ६६ ॥ [नक्तं भगवतो यजनस्य कर्तव्यता] पाते नक्तं जपान्ते वा विशेषादच्युतं यजेत् । जपहोमावसाने च समश्नीयात्ततो गुरुः ॥ ६७ ।। तद्वान्धवैः स्वशिष्यैस्तु 'संवृतः शोकशान्तये । [अस्थिसञ्चयनम् ] अस्थिसहन्टनं कुर्यात्तृतीयेऽति समागते ॥ ६८॥ इष्टा(ष्ट्वा ? )पूर्तीश्वरी(?)पूर्व पुष्पार्ध्यबलिधूपकैः । विमलाम्भसि निक्षिप्य अगाधे वा नदीजले ॥ ६९ ॥ भूमावथ कृते खाते ह्यधस्ताद्विनिवेशयेत् । न दीक्षितानां विमेन्द्र क्षिपेदस्थि ततस्ततः ॥ ७० ॥ इत्येष वैष्णवानां च सद्भक्तानां मयोदितः। [शवसंस्कारस्य सर्वैरवश्यकर्तव्यता ] देहपातिकसंस्कारो ह्यपवर्गफलमदः ॥ ७१ ॥ अनुष्ठेयस्ततस्तस्माच्छिष्याणां गुरुणा सदा । सच्छिष्यैवों गुरूणां तु स्त्रीणामथ महामते ॥ ७२ ॥ दीक्षितानां महायागे मात्रोपकरणं विना । संस्काराश्चाखिला मन्त्राः पित्रास्थ गुरुणाऽथवा ॥७३॥ आत्मजेनाथ पत्न्या वा कार्यश्चादीक्षितैरपि । कृपयाऽपविघातार्थमसन्दिग्धतया पिया ॥ ७४ ॥ 1 पत्र-वृतःशोकं प्रशान्तयेत् इति पाठो युक्तः प्रतिभाति । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy