SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. २२ ] वैष्णवाचारलक्षणम् २४९ आत्मनो भरणे चापि इत्यु(उद्यु?)क्तश्योपसर्पति । वृत्त्यर्थमपि राजानं स विभः कर्मसात्त्वतः ॥ १६ ॥ [शिखिनो लक्षणम् ] स्फुरत्यविरतं यस्य वैष्णवं यजनं हृदि । माधान्येनाथ पित्र्यादि तदर्थं कृषिपूर्वकम् ॥ १७ ॥ समाचरति वै कर्म शिखी साक्षाद्विजोत्तमः। 'मय्यपेक्षावशेनैव यद्यप्युत्कृष्टतां गतः ॥१८॥ तथापि चातुराश्रम्यं सर्वेषां विहितं सदा । [ वैखनसादिभ्यो वैष्णवेभ्यो भगवत्पूजनशेषभूतवृत्तिप्रदानां फलविशेषः । भगवत्पूजनार्थ तु त्रणायां यः प्रयच्छति ॥ १९ ॥ मठं सायतनं कृत्वा वृत्तिपूर्वमकण्टकम् । दासीकर्मकरोपेतं शुद्धवेदवरान्वितम् ॥२०॥ ते यान्ति भगवत्स्थानं भक्तानां सदनं महत् । [गृहस्थेभ्यो वैष्णवेभ्यो ग्रामादिदाने फलम् ] भगवद्यजनार्थ वा सात्त्विकेन तु चेतसा ॥ २१ ॥ मायतनभिन्नं च ग्रामभूद्रविणं महत् । गृहाश्रमरतानां च वैष्णवानां निवेदयेत् ॥ २२ ॥ न्यायोपायविधिमाप्तं यस्स मोक्षमवाप्नुयात् । [ब्राह्मणादन्यतो वृत्तिग्रहणप्रतिषेधः ] अलाभाच्चैव भिक्षाणामसामर्थ्यात्तथाऽऽत्मनः ॥२३॥ स्वकर्मणि बलोपार्थ पुत्रादेर्भरणाय च। अत्यापद्यपि जातायां कुटुम्बी वैष्णवो द्विजः ॥ २४ ॥ ब्राह्मणादेव गृह्णीयावृत्तिं देवमठाश्रिताम् । केवलां ग्रामपूर्व वा याचितायाचितात्तथा ॥२५॥ आमभातानिशान्तेन कर्मणा वैष्णवेन च । क्रियमाणेन तदुत तदर्थमघमेति वै ॥२६ ।। इत्येतद्यतिपर्वाणां वैष्णवानां च लक्षणम् । कथितं मुनिशार्दूल आप्तादीनामथो शृणु ॥ २७ ॥ [ आप्तलक्षणम् ] ये यजन्ति क्रमाद्देवं पञ्चकाल्येन कर्मणा । 1 मया Y. त्रयं A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy