SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [१. २१ सूपर्ण च तदन्ते तु माणस्तदनु नारद ॥२१॥ कूटस्तदवसाने तु सर्वलोकेशसंस्थितः। व्योमेशभूषितश्चैव भगवन्मे पदं ततः ॥ २११ ॥ संपूर्णे च पदं दद्यादानवर्णयुतं' ततः। कर्मणिशब्दमय च संपादय पदं द्विधा ॥ २१२ ॥ तदन्ते कौस्तुभपदं ओंभगवन्पदं ततः । ततश्चामृतमूर्ते वै समस्तपदमेव हि ॥ २१३ ॥ पदं मन्त्रगणं चातो यकारः केवलस्ततः ॥ नारायणः प्रधानस्थश्शान्तिदः केवलस्ततः ॥२१४ ॥ नरोऽथ भुवनारूढो रारूदोऽथ गदाधरः ॥ ओतदेहाङ्कितमाणश्शङ्कस्थश्चाथ शान्तिदः ॥ २१५ ॥ व्योमेशयुक्तो वैराजः स्रग्धरः केवळस्ततः । ताललक्ष्मा तदन्ते तु तृप्तिं च तदधो न्यसेत् ॥ २१६ ॥ तस्याप्यधो वराहं तु पिण्डोऽयं गोपनाङ्कितः । नारायणोऽथ चैकाकी भूयस्स दमनोध्वंगः ॥ २१७॥ आदिदेवेन चाक्रान्तो मन्दरोऽथाङ्कशास्थितः । औकारसंयुतः स्रग्वी व्यश्रयुक्तोऽथ दीप्तिमान् ॥ २१८ ॥ केवलश्च ततः पन्थास्सन्तर्पयपदं द्विधा । सोमोऽय वरूणारूढो द्विधा देयश्च नारद ॥ २१९ ।। व्यापी चान्द्री तथाऽऽनन्दो योज्यस्तदनु वै द्वयोः । वराहोऽथामृतस्थस्तु तदधः पुरुषेश्वरः ॥ २२० । उद्दामो ह्यथ तस्याधो व्यापी चान्द्री च मूर्धनि । एतदेव पुनर्दद्या वनाणेन वर्जितम् ॥ २२१ ॥ विष्णुनाऽलङ्कतं किं तु सानन्दममृतं ततः । तदधश्चामृताधारं शङ्ख तस्याप्यधो न्यसेत् ॥ २२२ ॥ विश्वाप्यायकरानन्दं त्रैलोक्यैश्वर्यदान्वितम् । परमेश्वरसंयुक्तं न्यसेत्सोममथ द्विधा ॥ २२३ ॥ वरुणो भूधरोपेतस्त्वनिरूपोऽथ केवलः। दण्डधारस्ततो देयः प्रणवेनाकितो मुने ॥ २२४ ॥ 1द्वयं A. 2 वकारः A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy