SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. २० ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रतिष्ठाविधानम् [ प्रतिष्ठादिना चतुर्थादिने स्नपनादिविधानम् ] चतुर्थेऽहनि संप्राप्ते संस्नाप्य परमेश्वरम् || ३५८ ॥ मपूज्य पूर्वविधिना होमं कुर्याच्च शक्तितः । समग्रमन्त्रजालस्य दत्वा पूर्णाहुतिं ततः ।। ३५९ ।। [ अथ विष्वक्सेनपूजनम् ] प्रागुक्तेन विधानेन प्रासादाभ्यन्तरे द्विज । ऐशान्यां चलपीठस्थं कुम्भे वा तोयपूरिते ।। ३६० ।। प्रपूज्य विष्वक्सेनं च पूजितव्याश्च मूर्तिपाः । [ शिष्टद्रव्यविनियोगप्रकार: ] निर्वर्त्य सर्वसंभारं स्वगुरोर्विनिवेद्य च ।। ३६१ । स्वयं वा यः प्रतिष्ठानमाचार्यस्त्वाचरेद्विज । यत्राद्विभजनीयं तन्मूर्त्तिपादिष्वनुक्रमात् ।। ३६२ ।। [ अवभृथः ] सिद्धिमुक्त्योरभीप्सार्थ स्त्रायादवभृथेन च । इत्येतत्साधकस्योक्तं मन्त्राराधनकांक्षिणः ॥ ३६३ ॥ मन्त्रमूर्त्तिप्रतिष्ठानं यत्रस्थः सिद्धिमाप्नुयात् । [ चित्रप्रतिष्ठायां विशेषः ] लेपभित्तिपटस्थानां स्नानाद्यं दर्पणे मुने ॥ ३६४ ॥ कुर्यान्निरवशेषं च पुष्पैः पूजां जलोज्झितैः । [ तत्र रत्नन्यासप्रतिषेधः ] भित्तिगानां पटस्थानां विम्बानां स्थापने द्विज ।। ३६५ ॥ पीठब्रह्मशिलारत्नन्यासाख्यो न भवेद्विधिः । [ अन्यत्र धातुजादिषु तद्विधानम् ] समानयोनिपीठानां धातुजानां तु नारद ॥ ३६६ ॥ चलानां लघुदेहानां बिम्बानां तु समाचरेत् । शैलमृद्दारुजानां तु एवमेवहि नान्यथा ॥ ३६७ ॥ निस्सारे सति वै पीठे अन्तस्सारे स्मरेद्धिया । [ अथ जीर्णोद्धारविधानम् तंत्र जीर्णबिम्बस्याभ्यर्चनप्रतिषेधः ] पटे कुड्ये परिक्षण भने बिम्बे प्रमादतः ।। ३६८ ॥ For Private and Personal Use Only २२७
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy