SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१९ प. २०] प्रतिष्ठाविधानम् पुष्पमाल्यैस्तथोष्णीषैर्भूषणैस्त्वगुलीयकैः ॥ २६१ ॥ मन्त्रान्पाठयेत्पूर्व वीक्ष्यमाणमुदग्दिशम् । यजुर्वृन्दं वैष्णवं यत्पाठयेदेशिकस्तु तत् ॥ २६२ ॥ गायेत्सामानि शुद्धानि सामज्ञः पश्चिमस्थितः । भक्तश्योदस्थितो ब्रूयाद्दक्षिणस्थो(णास्यो?) ह्यथर्वणम् ॥२६३॥ स्वशाखोक्तांस्तथा मन्त्रान् 'ज्ञातलिङ्गानशेषतः। एकैकं शिष्यवर्गेण वृतो याज्यक्रमेण तु ॥ २६४ ॥ [आप्ताद्यनुयायिमिः सह ईशादिविदिक्षु स्थितैः यत्यादिमिः एकायनीयशाखामन्त्रपठनम् ] भगवद्भाविनो ये च यतयः पाश्चरात्रिकाः। चतुर्भिराप्तैर्विपाधैर्युक्तांस्त्वीशदिशि न्यसेत् ॥ २६५ ॥ एकान्तिनस्तथाऽऽप्तैश्च(नासै?)युक्तानामेयदिग्गतान् । निवेश्य विप नैऋत्यां भक्तान्वैखानसैः(सान् ?)सह ॥२६६ ।। चतुर्भिरअलीकैस्तु ततो वायव्पगोचरे । सारम्भिणस्सात्वतांश्च तत्काले भगवन्मयान् ॥ २६७ ॥ चत्वारोऽथ चतुर्दिक्षु योज्याश्च शिखिनो मुने। तेषां चैवानुयायित्वाच्चत्वारस्तु प्रवर्तिनः २६८ ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च मुनिसत्तम । एकायनीयशाखोत्थान्मत्रान्परमपावनान् ॥ २६९ ॥ पाठयेच्च यतीनाप्तान् पूर्वान्वै पाश्चरात्रिकान् । स्वानुष्ठानैः स्वकान्मन्त्रान्जपतः संशितव्रतान् ॥ २७० ॥ [प्रागादिषु चतुर्यु दिक्षु गुर्वादीनां स्थितिः ] भागादौ चोन्तरान्तं च चत्वारो गुरुपूर्वकाः। बहवः समयज्ञान्ताः द्वावेको वा स्वशक्तितः॥ २७१ ॥ कृतन्यासास्तथा ध्यानमुद्रालङ्कृतपाणयः। स्ववाससि स्वकां मुद्रां छन्नां कुर्युः परस्परम् ॥ २७२ ॥ गीतनृत्तपराश्चान्ये अग्रतः स्तोत्रपाठकाः। वन्दिबृन्दयुता बाह्य तथा दुन्दुभिवादिनः ॥ २७३ ॥ प्रतिकर्म ततः कुर्यादोमं शल्या तु साधकः । मान Y. 2 यत्यादीनां लक्षणं द्वाविंशे पटले बोव्यम् 3 गुर्वादीनां लक्षणामष्टादशे पठले प्रोम, For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy