SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ जयाख्यसंहिता [प. २० निर्विनेन भवेन्मोक्षो ह्यतस्सिध्यभिकांक्षिभिः । न कार्य शैलजं गेहे दारुजं वाथ मृण्मयम् ॥ ६९ ।। [अथ पीठमानम् ] बिम्बमानाद्यथा पीठं कुर्याद्देवस्य तच्छृणु । [तत्र पीठद्वैविध्यम्] चतुरश्रं तु तद्विद्धि चरुरायतं तथा ॥ ७० ॥ [चतुरश्रपीठलक्षणम् ] बिम्बोच्छ्रायसमं पीठं परितश्चैव विस्तृतम् । तदर्धेनोच्छ्रितं कुर्यादेतत्सामान्यलक्षणम् ॥ ७१ ॥ चतुरश्रस्य पीठस्य कथितं च महामुने । [चतुरश्रायतपीठलक्षणम् ] चतुरायतस्याथ प्रमाणमवधारय ।। ७२ ॥ विम्बार्थेन तु विस्तीर्ण तत्पमाणेन चोन्नतम् । समं देवस्य दैर्येण चतुरश्रायतं तु तत् ।। ७३ ॥ कुर्यात्तुङ्गालयस्थानां देवतानां सदैवहि । [चलार्चायागृहार्चायाश्च पीठमानम् ] चलानां वेश्मसंस्थानां बिम्बानां पीठमन्यथा ॥ ७४ ॥ कुर्थात्स्कन्धसमं दैर्ध्यात् स्तनमानान्वितं तुवा । आपादाजानुपर्यन्तं विस्तारेणोच्छ्रयेण च ॥ ७५ ॥ ज(तदू? )घेनाथ वा कुर्यात् विस्तारं चापिचोन्नतिम् । उक्तोन्नतेर्वा विप्रेन्द्र स्यादर्धेन तु विस्तृतिः ॥ ७६ ॥ तचतुर्भागहीनं तु त्रिभागं चाधमेव वा । तुङ्गत्वं विहितं पीठे चलबिम्बस्य सर्वदा ॥ ७७ ॥ धातुद्रव्यस्य चाभावात्स्थिराणामेवमेवहि । [अथोपपीठलक्षणम् ] कृत्वा तु तदधः कुर्यादुपपीठं प्रमाणतः ॥ ७८ ॥ त्रिभागेनाथ पीठस्य प्रणाळं मध्यतो भवेत् । तन्मानेन तु तदीर्घ स्वमानादग्रतः पुनः ॥ ७९ ॥ त्र्यंशमानेन विस्तीर्ण तस्यापि त्र्यंशमन्तरात् । खातव्यमग्रतो मूलात्तत्कुर्यान्मकराननम् ।। ८० ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy