SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प.१८] अभिषेकाख्यानम् १९५ [ विष्णुहस्तप्रदानम् ] इत्युक्त्वा दक्षिणे हस्ते स्वयं सञ्चिन्त्य वै गुरुः ॥ ८२॥ मन्त्रात्मानं परं विष्णुं परं सकलनिष्कलम् । संपूज्य गन्धपुष्पाचैर्दद्यात्तस्य च मस्तके ।। ८३॥ [शिष्येण गुरोः पादोदकप्राशनकर्तव्यता] न्यस्यासनं ततः शिष्यः पादयोनिक्षिपच्छिरः । पक्षाल्य सलिलेनाथ गुरोश्चरणपङ्कजम् ॥ ८४ ॥ तेनात्मानं तु संसिच्य पिपेदञ्जलिना ततः। पूर्ववत्पूजयेद्च्या आत्मनाज्य धनेन च ॥ ८५ ॥ अनेन विधिना कुर्यादाचार्यस्याभिषेचनम् । [साधकाभिषेकातिदेशः ] एवमेव विधानेन साधकं चाभिषेचयेत् ॥ ८६ ॥ समालम्भनपूर्व यदन्तधावनपश्चिमम् । तस्य सर्वोपकरणं दातव्यं नियमविना ॥ ८७॥ [पुत्रकस्यामिषके देयविशेषः ] पूजाधिकारशास्त्रं च पुत्रकस्य प्रदीयते । [समयज्ञस्याभिषेके देयविशेषः] केवलं समयज्ञस्य प्रदद्याच्छास्त्रपुस्तकम् ।। ८८॥ अभिषेकावसाने च आज्ञायां योगदर्शने ( ? )। [ अभिषेकस्य श्रेयःप्रभृत्यनेकफलसाधनता] श्रेयोऽर्थी विधिनाऽनेन यः स्नायाच्छ्रेय आप्नुयात् ॥ ८९ ॥ जयार्थी वाऽथ भूपालो भाग्यार्थी वाऽथ दुर्भगः । पुत्रकामाऽथ वनिता पतिकामाऽथ कन्यका ॥ ९॥ चिरायुषोऽर्थी यः कश्चित्स्लायात्संवत्सरं प्रति । तस्यापमृत्युनाशश्च भवति यचिरात्ततः ॥ ९१ ॥ यावदब्दानि कुरुते तावद्रोगविवर्जितः। वलीपलितनिर्मुक्तः सुभगः स्थिरयौवनः ॥ ९२ ॥ सर्वकामानवाप्नोति देहान्ते शाश्वतीं गतिम् । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां अभिषेकाख्यानं नामाष्टादशः पटलः । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy