SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८ जयारूपसंहिता [प. १९ पूर्णाहुतिं तदन्तेन वौषडन्तेन होमयेत् । [ब्रह्मसमापत्तिहोमप्रकारः ] ततो ब्रह्मसमापत्तिंस्थित्यर्थ होमयेदुरुः ॥ २८७ ॥ प्रणवादिनमोन्तैस्तु दशभिस्तु महापदैः । अप्रतक्यमनिर्देश्यमनौपम्यमनामयम् ॥ २८८ ॥ सूक्ष्मं सर्वगतं नित्यं ध्रुवमव्ययमीश्वरम् । भवेदशदशाहुत्या तद्वत्पूर्णाहुतिं पुनः ॥ २८९ ॥ शिष्यं चैव तथात्मानं परं ध्यात्वा परं पुनः । वौषडन्तं महापूर्णा तृतीयां पूर्ववक्षिपेत् ॥ २९० ॥ क्षीरं क्षीरं यथा विष नीरमेकत्र चिन्तयेत् । शिष्यं चैव तथाऽऽत्मानं विष्णुं सर्वगतं विभुम् ॥ २९१ ॥ निस्तरङ्गे मुनिश्रेष्ठ एकत्र समतां गतम् । . तदा स्यान्मुक्तिदा दीक्षा वैष्णवी मोक्षदाऽर्थदा ॥ २९२ ॥ तत्त्वसंहारयोगेन अपुनर्भवता मुने । [ सृष्टिक्रमेण संपादितानां तत्त्वानां शिष्यदेहे योजनम् ] अलुप्तानन्दविज्ञानब्रह्मशैलाग्रगो गुरुः ॥ २९३ ॥ पातयेत्सृष्टिमार्गेण दिव्यमन्त्रमयं पुरम् । शिष्यः समाप्तहोमोऽयं कृतो विष्णुमयः पुरा ॥ २९४ ॥ विज्ञानवायुनाऽऽकृष्य निस्सृतं भावयेच्छनैः। वासुदेवोदधेमेध्यादायान्तं च पदात्पदम् ।। २९५ ।। 'प्रवाहमौदकं यद्वत्सृष्टिमार्गे नियोज्य च । .... मन्ने परे सूक्ष्मे तथा परे ॥ २९६ ॥ शुद्ध त्वंशपदे चाचे तत्त्वानामुदयास्पदे । तत्त्वात्तत्वं समायाति (दाय ?) तदा चात्मनि योजयेत् ।।२९७॥ संशुध्य शिष्यचैतन्यं भागार्थ ब्रह्मणो हरेत् । अनुग्रहार्थ भक्तानां शिष्यदेहे नियोजयेत् ॥ २९८ ।। एवं समाप्य वै दीक्षां विष्णोस्सायुज्यदायिकाम् । [ वह्निमध्यस्थस्य मन्त्रमूर्तेर्भगवतोऽर्चनम् ] भगवन्तं ततो विष्णुं व्यापकं वह्निमध्यगम् ॥ २९९ ॥ 1 प्रभाव V. 2 तत्वानां A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy