SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. १९] दीक्षाविधानम् मूलेन मगवन्तं तु परमं सृष्टिकारणम् । पूर्णा दीक्षावसाने तु दातव्या मुनिसत्तम ॥ २४८ ॥ एकानेकपयोगाणां न तु कर्मणि कर्मणि [ ताडनलक्षणं शिष्यशरीरशुद्धीकरणम् ] एकचित्तस्थितिं कृत्वा शिष्यरूपं समाधिना ॥ २४९ ॥ सांप्रतं मूलमन्त्रेण मन्त्रजापोत्थितेन तु । मजप्य मूलमन्त्रेण पुष्पं तु बहुशस्ततः ॥ २५० ॥ हुं फट्टारान्तयुक्तेन हृदयं तस्य ताडयेत् । संबोधमावहेच्छीघ्र पिण्डमध्यगतस्य च ॥ २५१ ॥ [ तत्त्वानां शोधनप्रकारः ] 'क्ष्मातत्त्वे जननं पूर्व चैतन्यस्य प्रकाशता । सद्वयाप्तिभावना तस्मिन् स्वस्मिन्स्वस्मिन्स्थितस्य च ॥२५२ ॥ मन्त्रसंबोधसामर्थ्यात्तत्रैश्वर्यपदं पुनः। तद्भोगमाप चैश्वर्यात्तत्तृप्तिमथ भावयेत् ॥ २५३ ॥ जन्तो गसमाप्ति तु भोगान्ते तु वियोजनम् । अथोद्धारस्तु कर्तव्यस्तत्वात्तत्त्वे अनुक्रमात् ॥ २५४ ॥ एवं तु विविध कर्म तत्त्वे तत्त्वे विचिन्तयेत् । पतितत्त्वं शतं हुत्त्वा आहुतीनां तु नारद ॥ २५५ ॥ मत्रयुक्तेन बीजेन सर्वतत्त्वानि होमयेत् । अध्यात्ममन्त्रमुच्चार्य अस्येति द्वयक्षरं परम् ।। २५६ ॥ तदन्ते शिष्यसंज्ञां तु तत्त्वबीजमयोचरेत् । बीजान्ते तत्त्वसंज्ञा च शोधयेति पदं ततः ॥२५७ ॥ स्वाहां तदनु वै कुर्याश्छमं नयपदं ततः। नमस्कारसमायुक्तो मन्त्रोभ्यं होमकर्माण ॥ २५८ ॥ चिन्तयेत्तत्वरत्नं तु शिष्यान् (शैष्यं ? ) संस्मृत्य पार्थिवम् । चैतन्यकरणेनापि निक्षिप्तं च सुचोऽग्रतः ॥ २५९ ॥ 1क्ष्मादितत्त्वानां प्रत्येक क्रमाजनन- (सूक्ष्मदेहतापादन ) चैतन्यप्रकाशनव्याप्तिभावनऐश्वर्य-भोग-ततृप्तितत्सभाप्ति-वियोजनसम्पादनपूर्वक पूर्णया त तन्मन्त्रेण कुण्डस्थे मन्त्रमूर्तावुपसंहारः कार्य इति प्रकरणाशयः । अयमेव विषयः सात्वतसंहितायामेकोनविंशे परिच्छेदे 'पूरकेण समाकृष्य शिष्य कमलावृदि' इत्यादिना अन्धसन्दर्भण निरूपितः। For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy