SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११७ प. १० दीक्षाविधानम् दिक्संस्थितस्य यच्चैक्यं मिश्रीभूतत्वमेव हि । [तत्रैकधाग्रन्थनपक्षे] एकोच्चारमयोगेण ईशं सर्वत्र भावयेत् ॥ १५० ॥ [द्विधा ग्रन्थनपक्षे] द्विरुचारप्रयोगेण ईश्वरं तु विभावयेत् । व्यक्ती प्रधानतत्त्वं तु व्यापकं देहरूपधृत् ॥१५१ ॥ [त्रिधा ग्रन्थनपक्षे] त्रिरुचारेण चामूर्हो हृदयान्तं स्मरेद्विभुम् । हृदयान्नाभिपर्यन्तं प्रधानं परिभावयेत् ॥ १५२ ।। आनाभेः पादपर्यन्तं स्मरेत्तन्मात्रकं गणम् । [ नवधा ग्रन्थनपक्षे] नवधा मुनिशार्दूल एवमेव क्रमं शृणु ॥ १५३ ॥ आकर्णादीश्वरं मूर्ति प्रधानं वक्षसोऽन्तरे । नाभौ बुद्धिमहङ्कारं कन्दमूलाश्रितं स्मरेत् ॥ १५४ ॥ ऊरुभ्यां शब्दतन्मात्रं स्पर्शाख्यं सन्धिदेशजम् । जडाभ्यां रूपतन्मात्रं गुल्फयोरससंज्ञितम् ॥ १५५॥ पादाभ्यां गन्धसंशं तु सबीजं ध्यानसंयुतम् । स्मरेदेहे शिशोस्सूत्रे नवग्रन्थिसमायुते ।। १५६ ॥ ध्यायेद्धयाता धरान्तं वा दीक्षाकाले घुपस्थिते । [अथ तत्त्वानां होमः] ललाटे चेश्वरं साक्षाचिद्रूपं सर्वतो मुखम् ॥ १५७ ॥ समग्रैश्वर्यसंपूर्ण स्वबीजेन महामते । तद्वदेव हि शिष्यस्य धात्वा तदनु होमयेत् ॥१५८ ॥ स्वबीजेन शतं साष्टं तदध व्यंशमेव वा । तत्पादमथ पादाध ज्ञात्वाव्यक्तबलं तु वै ॥ १५९ ॥ हुत्वाऽथ हविषाऽऽपूर्य स्रवं तेन हुने( ? )च्छिशुम् । मूर्वि पूर्णोपमं कुण्डे स्वाहान्तं तु विनिक्षिपेत् ॥ १६० ॥ सूत्रग(ग्र?)न्धावथोलस्थे तत्तत्वं भावयेत्तथा । एवमीश्वरसंपातं होमं कृत्वा समासतः ।। १६१ ॥ 1 विभावयेत् (हृदन्तरे) Y.C L.. S. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy