SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. १९] दीक्षाविधानम् ११३ सन्तर्प्य पूर्वविधिना चरुं वै साधयेत्ततः । [अथ चरुसाधनप्रकारः] प्रक्षाल्य च पुराऽस्त्रेण गन्धैरालिप्य चान्तरात् ॥ १०५ ॥ क्षीरेण हविरापूर्य हृन्मन्त्रेण तु नारद । लक्षयित्वा शृतं क्षीरं निक्षिपेत्तण्डुलांस्ततः ॥ १०६॥ शक्तिमन्त्रचतुष्केण चालयेत्सिह्ममूर्तिना । सिद्धमुत्तारयेत्कुण्डान्मन्त्रेण कपिलात्मना ।। १०७ ॥ मक्षाल्यालिप्य च ततो मन्त्रेण क्रोडमूर्तिना । स्थगयेन्मूलमन्त्रेण [सिद्धस्य चरोश्चतुर्धा विभज्य विनियोगविधानम् ] चतुर्धा संविभज्य तत् ॥ १०८ ॥ स्थण्डिलाराधितस्यादौ भागमेकं निवेद्य च । मध्वाज्यसंप्लुतं कृत्वा द्वितीयं कलशस्थिते ॥ १०९ ॥ तृतीयं भागमादाय तमग्निस्थे तु होमयेत् । परिवारे बलिं दद्यात्स्थलेशकलशावधौ( ? ) ११०॥ [ स्थण्डिलादिस्थानत्रये देवस्य पुनः पूजनम् ] मुद्रा बध्वा ततो जप्त्वा पुष्पायैः पूजयेत्पुनः । त्रिस्थानस्थं क्रमाद्देवं शिष्यानाहूय मण्डितान् १११ ॥ [शिष्याणां प्रोक्षणम् ] सुनातान्धीतवस्त्रांश्च पवित्रीकृतविग्रहान् । द्वारदेशस्थितान्कृत्वा बहिर्वासान्तरे' द्विज ॥ ११२ ॥ प्रोक्षयेदर्घ्यपात्रात्तु प्रागस्त्रेण तु नारद । . [अथ सर्वाङ्गसंस्पर्शः] सर्वाङ्गालभनं कुर्याच्छाखाजप्तैः पदैः क्रमात् ॥ ११३ ॥ [अभिमन्त्रितस्यार्थ्यपुष्पस्य शिरसि प्रक्षेपः ] दत्वाऽयंपुष्पं शिरसि शिरोमन्त्राभिमन्त्रितम् । [शिष्याणां मन्त्रमयशरीरत्वापादनम् ] दहनोत्पादनं कुर्यात्पूर्ववत्तमयोगतः ॥ ११४ ॥ 1 संकटे Y. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy