SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. १५] अग्निकार्यविधानम् मध्ये मृगपदाकारचिन्हेन तु विराजितम् । विस्तारस्य त्रिभागेन ग्रीवा 'साधा त्रिरङ्गुला ॥ १०३ ॥ मूले चोभयतः कुर्यात्स्वस्तिकं द्वयङ्गुळायतम् । विचित्ररचनायुक्तं दण्डं श्लक्ष्णं तु वा भवेत् ॥ १०४॥ सुवमेवंविधं कुर्याद्धोमकर्मणि साधकः । संस्कारार्थ ततोमे तेन होमं समाचरेत् ॥ १०५ ॥ [अनेः संस्कारद्वैविध्यम् ] अग्नेश्च दश संस्काराः कुण्डमध्यगतस्य च ।। बाह्ये तु पञ्चसंस्कारा एवं पञ्चदश स्मृताः ॥ १०६ ॥ मोक्षणं ताडनं बाये अर्चनं चावकुण्ठनम् । अमृतीकरणं वन्हेः पञ्चैते कथिताः पुरा ॥ १०७ ॥ [अग्नेर्गर्भन्यासादिसंस्काराः ] कुण्डमध्ये तु वै विप्र पागलक्ष्म्यां तु प्रयोजनम् । गर्भन्यासं पुंसवनं ततो वै वक्त्रकल्पना ॥१०८ ॥ सीमन्तं वक्त्रनिर्यासं निष्कामं जातकर्म च ।। नामधेयं च भोगं च माशनाचं द्विजाखिलम् ॥१०९ ॥ अधिकारं च सर्वान्वै हृदा कुर्याच नारद । [अथाज्यसंस्काराः] आज्यकर्मणि वै कुर्यादशैवं विधिपूर्वकम् ॥ ११० ॥ अधिश्रयणमादौ हृन्मन्त्रेण कवचेन च । संप्लवोत्लवने चैव उपाधिश्रयणं तथा ॥ १११ ॥ प्रसादीकरणं चैव पवित्रीकरणं तथा । ततो नीराजनं नाम त्रीण्येतानि च नारद ॥ ११२ ॥ हृन्मन्त्रेण च कार्याणि कवचेनावकुण्ठनम् । अवलोकामृतीकारौ तैनैव तदनन्तरम् ॥ ११३ ॥ भाण्डस्थस्य यदाज्यस्य दभैः प्रज्वलितैः पुरा । स्पर्शनं विद्धि संस्कारमधिश्रयणसंज्ञकम् ॥ ११४ ॥ 1 साया A. 2 प्राशनभोगयोरेकसंस्कारत्वाश्रयणेन दशविधत्वम् , एतदुत्तरत्र व्यक्तीभविष्यति । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy