SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प. १५ गृहीत्वा चैकदेशात्तु कुण्डमध्याच मृत्कणम् । अङ्गुष्ठानामिकाभ्यां तु हृदयेन समुद्धरेत् ॥ ४१ ॥ अस्त्रेणैव समीकृत्य न स्यानिन्नोन्नतं यथा । सेचयेत्कवचेनैव कुट्टयेत्तदनन्तरम् ॥ ४२ ॥ लेपयेद्न्धतोयेन अस्त्रेण परिशोधयेत् । उल्लिखेदस्वराजेन दर्भकाण्डेन यत्नतः ॥ ४३ ॥ भूमावभ्यन्तरे कुण्डे दक्षिणाशादितः क्रमात् । उत्तराशावधिविद्याद्रेखात्रयं समम् ॥ ४४ ॥ प्रत्यग्भागात्समारभ्य नयेत्पूर्वमुखं तु तत् । तन्मध्ये त्रितयं चान्यदेखाणामुत्तरामुखम् ।। ४५ ॥ एवमुल्लिख्य विधिना प्रोक्षयेत्कवचेन तु । अच्छिन्नाप्रैस्ततो दभैरस्त्रमन्त्राभिमान्त्रितैः ॥ ४६॥ कुण्डभित्तिगणं सर्व प्रोत्थितं परिभूषयेत् । कृत्वैवमक्षवाटं तु कुण्डसंस्कारमुत्तमम् ॥ ४७ ॥ [नाभिपूजनम् ] समभ्यर्च्य ततोऽाद्यैर्मध्यतः प्रणवेन तु । तेनैव विधिना नाभिं पूजयेच्चन्द्रसन्निभाम् ॥ ४८ ॥ [ मेखलापूजनम् ] मेखलात्रयपूजायां हृन्मत्रं तु प्रयोजयेत् । [ मेखलात्रये तत्त्वत्रयस्य पूजनम् ] ततस्तत्वत्रयं पूज्यं मेखलात्रितयोपरि ।। ४९ ॥ प्रधानपुरुषेशाख्यं प्रणवत्रितयेन च । आऑविलेपनै परिष्वा कुण्डं पुरा द्विज ॥ ५० ॥ [ कुण्डमध्ये आधारशक्त्याद्यासनकल्पनपूर्वकं नारायणाख्यायाः शक्तेः स्थापनप्रकारः ] चतुष्पथे तु कुण्डस्थे सपुष्पं दर्भविष्टरम् । हृन्मत्रेण च विन्यस्य तत्रोपर्यथ पूजयेत् ।। ५१ ॥ सम्पूज्यामिं समादाय सम्भ्राम्यायतनं त्रिधा । योनिमार्गेण निक्षिप्य वद्विबीजमनुस्मरेत् ॥ ५२ ॥ अियं श्लोकः S पुस्तके योजितो दृश्यते । अन्येषु पुस्तकेषु नास्ति अस्थानेऽस्य प्रक्षेप इति प्रतिभाति For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy