SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३४ जयाख्यसंहिता [प. १५ [ खातमानम् ] विस्तारार्धेन सर्वत्र खातस्तु परिशस्यते । स्वीयात्मामेखलामानादायं खाते युगं पुरः॥ १५ ॥ त्यक्त्वा तु मेखलाबन्धं ततश्चैव समारभेत् । [कुण्डमानभेदेन मेखलानां मानभेदाः ] प्रमाणं मेखलानां च यवद्वादशसम्मितम् ॥ १६ ॥ द्वादशाकुलमानस्य कुण्डस्य परिकीर्तितम् । विस्तारतुल्यमुच्छ्रायो मेखलानां महामते ॥ १७ ॥ मेखलात्रितयं चैवमेकीकृत्य तु जायते । विस्तारस्तु ततोच्छ्रायस्सार्ध तु चतुरङ्गुलम् ॥ १८ ॥ रनिमात्रस्य कुण्डस्य मेखला द्वयकुलाः स्मृताः। अङ्गुलं सकनिष्ठस्य कुण्डस्या!त्तरं द्वयम् ॥ १९ ॥ व्यङ्गला हस्तमात्रस्य कुण्डस्य समता स्मृता। द्विहस्तस्य द्विजश्रेष्ठ मेखलाश्चतुरङ्गलाः ॥ २० ॥ चतुर्हस्तस्य कर्तव्यास्सर्वाश्चैव षडङ्गुलाः। अष्टाङ्गुलिश्च कुण्डस्य अष्टहस्तस्य कीर्तिताः ॥२१॥ [नाभिलक्षणम् ] दिमध्येऽप्यथ कुण्डस्य नाभि (?) कुर्याद्विजोत्तम । अश्वत्थपत्रसदृशीं मेखलोपरि संस्थिताम् ।। २२ ।। यदक्तं प्राङ्मया मानं मेखलानां क्रयेण तु । एकीकृत्य तु तत्सर्व मध्यात्सूत्रेण लाञ्छयेत् ॥ २३ ॥ अर्धमर्धेन्दुवद्वाह्यात्तत्र 'चातिशयेन च । मुखाद्यभ्यन्तरं यावत्क्रमेणानेन ह्रासयेत् ॥ २४ ॥ उभयोः पक्षयोर्विम गजोष्ठाकृतिवत्तथा । पृष्ठतो मेखलमानात्किञ्चित्कायर्या द्विजोन्नता ॥ २५ ॥ एकमेखलमानाच त्र्यंशेनार्धन वा मुने । क्रमेण हासयेत्तावत्तावद्वै मेखलोच्छृतिः ॥ २६ ॥ ईषदुच्चा भवेत्सा वै मेखलोपरि संस्थिता । एकमेखलतुर्याशमानं कुण्डान्तरे द्विज ॥ २७ ॥ 1 सूत्रचयेन च Y. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy