SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२९ प. १४ ] जपविधानम् संपूज्य पुष्पधूपाधैर्मन्त्रं तव च विन्यसेत् ॥ ४६॥ साधारं साधनं चैव शक्तिपूर्वैस्समावृतम् । सन्निधौ भव देवेश सनिरुद्धो भवाच्युत ॥ ४७ ॥ सूत्राख्ये मणिजालेऽस्मिन्यावच्चंद्रार्कतारकम् । एवं मुने प्रतिष्ठाप्य मन्त्र सूत्रेऽक्षसंज्ञिके ॥४८॥ प्रतिष्ठितस्य वै पश्चान्मुद्रां स्वां च प्रदर्शयेत् । [अक्षसूत्रमुद्रा] लग्नं तिर्यग्गतं कुर्यात्कुञ्चितं दक्षिणात्करात् ॥ ४९ ॥ चतुष्कमगुलीनां च अङ्गुष्ठाग्रेण संस्पृशेत् । तर्जनादिक्रमेणैव कनिष्ठान्तं द्विजोत्तम ॥ ५० ॥ संस्पृशन्तं कनिष्ठान्तमङ्गष्ठं चोर्ध्वमानयेत् । अक्षसूत्रस्य मुद्रैषा नित्यसन्निधिकारिणी ॥ ५१ ॥ जपं समारभेत्पश्चाददृश्यमितरैर्जनैः । - [जपारम्भात्प्राकर्तव्योऽनुसन्धानविशेषः ] करणं वामनश्चैव मन्त्रेण परमात्मना ॥ ५२ ॥ विष्णुना शक्तिरूपेण भावितं भावयेत्पुरा । चेतसा यदुपारूढं तयुक्तं वस्तु वाग्गतम् ॥ ५३ ॥ वस्तुयुक्तं च चैतन्यं वाक्तृतीया च नारद । समारोहेकर्मपदे विकारत्वे शनैश्शनैः ।। ५४ ॥ एवं विवर्तते मन्त्रस्तुर्याजाग्रावधि क्रमात् । पातिलोम्येन वै विप्र पुनरेव निवर्तते ॥ ५५ ।। करणं वाक्स्वरूपं स्याद्वाक्च चिद्रपिणी भवेत । यच्चित्तं स भवेन्मन्त्रो यो मन्त्रस्स त्वजो हरिः ॥ ५६ ॥ ब्रह्माघजाग्रत्पर्यन्तं पुनरत्रैव संनयेत् । व्यापकं यत्परं ब्रह्म शक्तिर्नारायणी च या ॥ ५७ ॥ सा थेव परिणामेन तुर्याख्यं भजते पदम् । तुर्य मुषुप्ततामेति सुषुप्तं स्वप्नतां व्रजेत् ॥ ५८ ॥ जाग्रत्वं स्वममायाति एवं जाग्रादितः पुनः। 1 खं S. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy