SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११४ www.kobatirth.org जयाख्यसंहिता Acharya Shri Kailassagarsuri Gyanmandir [ १. १३ आधारशक्तेरारभ्यअनुसन्धानपूर्वकम् ॥ ९० ॥ युगासानं प्राक् दत्वा स्थूलं मन्त्रासनासनम् | तत्रोर्ध्वे मध्यदेशेऽपि प्रागुक्तविधिना न्यसेत् ॥ ९१ ॥ द्विरष्टकं तु धर्मार्थ कान्तिमत्पररूपधृत् । तच्च षोडशकं न्यस्य भूयो भूयो दिगष्टके ॥ ९२ ॥ सूक्ष्मरूपधरं विम प्राक्पदादीशगोचरम् । पद्मादिवन्हिवेश्मान्तमेकैकस्मिन्न्यसेत्ततः ॥ ९३ ॥ तदेव गर्भदेशस्थं ह्यनुसन्धाय विन्यसेत् । भावासनावसानान्तं (नं तत् ?) मन्त्रैः स्वैस्स्वैरथार्चयेत् ॥ ९४ ॥ उपर्युपरि योगेन पुष्पधूपानुलेपनैः । [ चतुरस्रायतमण्डलकल्पनम् ] युगावसाने पीठस्य पृष्ठे विधिसमीपतः ॥ ९५ ॥ कल्पनाजनितं कुर्याच्चतुरस्रायतं ततः । मण्डलं देवदेवस्य दक्षिणे मण्डलोपरि ॥ ९६ ॥ वायव्य कोणादारभ्य यावदीशानगोचरम् । [ गणेशादिपूजनम् ] तत्रादौ तु स्वमन्त्रेण गणेशं पूजयेद्विजः ॥ ९७ ॥ ततो वागीश्वरीं देवीं तदन्ते गरुडं यजेत् । पूजयेच्च ततो भक्त्या गुरुं परमसंज्ञितत् ॥ ९८ ॥ परमेष्ठी ततः पूज्यस्ततः पितृगणं यजेत् । आदिसिडसमूहं च भगवद्धानतत्परम् ॥ ९९ ॥ अनुज्ञां प्रार्थयेत्तेभ्यो यथानुक्रममेव च । [ हृदयकमलाद्भगवत आवाहन पूजनप्रकार: ] गृहीत्वा शिरसा तां च तत आवाश्येत्प्रभुम् ॥ १०० ॥ आवाह्य मन्त्रेण मुने मुद्रायुक्तेन भक्तितः । मोच्चार्य मूलमन्त्रं तु हृदयस्थं च सर्वगम् ॥ १०१ ॥ अवतार्य क्रमेणैव रेचकेन शनैरशनैः । नाडीभ्यां सन्धिदेशेन नीरूपेणामकेन च ॥ १०२ ॥ कल्पनारहितेनैव चिद्भावाभासितेन च । सर्वगस्य ततो विप्र सार्घ्यं पुष्पाञ्जलिं विभोः ॥ १०३ ॥ For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy