SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [ अर्घ्यद्रव्याणि ] सिद्धार्थ कास्तिलादूर्वास्सयवास्सिततण्डुलाः ।। ६५ । तो क्षीरफलोपेता इदमर्घ्यमुदाहृतम् । आप्याय्य मूलमन्त्रेण सुधासन्दोहमूर्तिना ।। ६६ ।। [ अर्ध्यस्य विनियोगः ] पात्रद्वयस्थितं तेन कृत्वा भागद्वयं मुने । एकस्मिन्निष्कलाधारे संस्थितं निष्कळात्मकम् || ६७ ॥ मन्त्रचक्रं स्ववीर्येण प्रस्फुरत्तच्च विन्यसेत् । संस्थाप्य मण्डलाग्रे तु पूज्यं पुष्पादिना पुरा ॥ ६८ ॥ धारणाद्वितयेनैव अग्नीषोममयेन च । सम्यद्वितीयं संस्कुर्याद्यथावदवधारय ।। ६९ ।। प्रचण्डकिरणव्रातैर्भास्करीयैर्दहेत्पुरा । संचिन्त्य भस्मभूतं तु ततः पूर्णेन्दुरश्मिभिः ॥ ७० ॥ आपूर्यामृतकल्लोलधारापातेन नारद । कान्तिमच्चिन्तयेद्भूयो यद्दग्धं भानुना तु वै ॥ ७१ ॥ मूलमन्त्रादिभिर्मुख्यैर्मन्त्रैस्तदभिमन्य च । बध्वाकामदुघां मुद्रां स्ववन्तीं 'मन्त्रसंयुताम् ॥ ७२ ॥ गोरूपां हिमशैलाभां निराधारपथस्थिताम् । गन्धदिग्धौ करौ कृत्वा अर्ध्यपात्रोद्धृतेन च ॥ ७३ ॥ मण्डलं मण्टपं मोक्ष्य यागद्रव्याण्यशेषतः । दाहयेदमन्त्रेण मूलेन प्लावयेत्ततः ॥ ७४ ॥ निर्मलो द्रव्यसङ्घ यागयोग्यो भवेत्तदा । नमस्कृत्य ततो विष्णुं मूलमन्त्रं समुच्चरेत् ।। ७५ ।। [ द्वारपूजा ] स्वमूर्तिसंस्थितः पूज्यः पुष्पैरञ्जलिसंस्थितैः । अर्घ्यपात्रं समादाय पुष्पं धूपं विलेपनम् ॥ ७६ ॥ दीपनैवेद्यपर्यन्तं द्वारं बाह्य ततो यजेत् । [ द्वारदेवतापूजा ] उदुम्बरस्य मूले तु बहिर्द्वारस्य मध्यतः ॥ ७७ ॥ पद्म A. For Private and Personal Use Only [ १. ११
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy