SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ जयाख्यसंहिता [प. १२ संपूर्णेन्दुसमानं च हेमदण्डसमन्वितम् । छत्रं निवेदयेद्विष्णोर्मायूरं व्यजनं शुभम् ॥ ६३ ॥ कर्पूरचूर्णसंमिश्रं सुगन्धि मधुरं बहु । धूपं भगवते दत्वा दीपमालां घृतेन च ॥ ६४ ॥ मधुसर्पिःप्लुतं चाथ मधुपर्क निवेद्य च । पशुं च विविधं मूर्त पावनं शकुनि तथा॥६५॥ औषधीश्शालिदूर्वी च सत्फलाढ्यं वनस्पतिम् । मूर्त निवेदयेत्पूर्वमिदमन्नं चतुर्विधम् ॥६६॥ नैवेचं विविधं शुद्धं भक्ष्यभोज्यान्यनेकशः । हृयानि फलमूलानि षट्क्रतुप्रभवानि च ।। ६७ ॥ षड्रसानि च चित्राणि पानान्यथ निवेद्य च । सर्वाण्यात्मोपभोग्यानि भक्तिश्रद्धावशाहिज ॥ ६८ ॥ माग्दिक्ष्वप्यविरुद्धानि देवाय विनिवेदयेत् । तन्त्रीवाधान्यनेकानि नृत्तगैयान्वितानि च ।। ६९ ॥ भेरीपटहयोषादिस्तुतिपागन्वितानि च । चिन्तयेदेवदेवस्य लोकत्रयगतानि च ॥ ७० ॥ किङ्किणीजालयुक्तेन चामरेणोपवीज्य च । वितानकं पताकाश्च ध्वजानि विविधानि च ।। ७१ ॥ विनिवेद्य विभोर्भक्त्या प्रसन्नान्तरात्मना । गजाश्वधेनुयानानि मुवस्त्रालङ्कृतानि च ॥ ७२ ।। निवेद्य चान्तरा तानि ग्राहयन्तं स्मरेत्ततः। आत्मानं समुतान्दारांस्तस्मै च नमसा युतान् ॥ ७३ ॥ निवेद्य प्रणतो मो आनन्दाश्रुसमन्वितः । कामधेनुमयीं मुद्रां मनसा मन्त्रसंयुताम् ॥ ७४ ॥ बध्वा संचिन्तयेद्विष्णोस्सवेकाममपूरणीम्। हृयोमपुष्कराग्रस्थं देवमिष्ट्वा जगद्गुरुम् ॥ ७५ ॥ समस्तमन्त्रदेहं तु सकळं निष्कलात्मकम । [लक्ष्म्याद्यङ्गपूजनम् तत्रलययागादिभेदः] शक्तयश्चाङ्गषट्कं च लांछनं कमलादिकम् ।। ७६ ॥ भूषणं कौस्तुभाषं च वदनानां तथा त्रयम् । For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy