SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९६ www.kobatirth.org 1 सर्वेष्व A. 2 शक्तिश्व Y. जयाख्यसंहिता सत्याद्येन क्रमेणैव भूयस्तत्पञ्चकं न्यसेत् । ब्रह्मरंध्रान्तरे चैव हृन्मध्ये नाभिपुष्करे || ३३ ॥ नाभिमेदान्तरे चैव पादयोः क्रमयोगतः । योजयेच्च ततो देहे आमूर्ध्नश्च तनुत्रवत् ॥ ३४ ॥ सप्ताक्षरं महामन्त्रं विष्णुं नारायणं प्रभुम् । सर्वे मन्त्रास्तदन्तस्थास्तेषामन्तगर्तश्च सः ।। ३५ ।। अस्यैव मासस्य परमं करणश्च सः । सर्वेषां वर्तते मूर्ध्नि तस्मात्सर्वोपरि न्यसेत् || ३६ || शक्तिचक्रं हृदन्नाभि (?) नाना तु मुनिसत्तम । न्यस्तमात्रेण वै तेन सन्धानमुपपद्यते ॥ ३७ ॥ एवं न्यासं पुरा कृत्वा करयोर्विग्रहे ततः । [ तत्तन्मुद्राप्रदर्शनम् ] मूलमन्त्रादिसर्वस्य न्यस्तमन्त्रगणस्य च ॥ ३८ ॥ मुद्रां प्रदर्शयेत्स्वां स्वां मन्त्रन्याससमन्विताम् । [ साधकेन कर्तव्यध्यानप्रकार: ] ततस्सविग्रहं ध्यायेदात्मानं विष्णुरूपिणम् ॥ ३९ ॥ पूर्वोक्तध्यानयोगेन पाडण्यमहिमावृतम् । स्वरूपं विश्वरूपं वा यथाभिमतरूपकम् || ४० ॥ अहं स भगवान्विष्णुरहं नारायणो हरिः । वासुदेवो ह्यहं व्यापी भूतावासो निरञ्जनः ॥ ४१ ॥ एवं रूपमहङ्कारमासाद्य सुदृढं मुने । तन्मयश्चाचिरेणैव जायते साधकोत्तमः ॥ ४२ ॥ न्यासाद्धधानात्तथा भावान्मध्यमाच्चापि योगजात् । इति संक्षेपतः प्रोक्तं न्यासकर्म मया च ते ॥ ४३ ॥ समाचर यथान्यायं गोपयस्व च यत्नतः । इति श्रीपाञ्चरात्रे जयाख्यसंहितायां मन्त्रन्यासविधिर्नाम एकादशः पटलः । Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only [ ५.११
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy