SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. १० समाधिख्यापनम् [ त्यक्ततया भावितस्यास्य भौतिकदेहस्य प्रज्वालन-भस्मीकरणभावनम् ] एवं स्वस्थानमासाद्य त्यक्त्वा भौतं च विग्रहम् ॥ ७१॥ तत्र स्थितो दहेत्पिण्डं शक्तितन्मात्रवर्जितम् । पादोशिकमसारं च निदग्धतणरूपिणम् ॥ ७२॥ इच्छानिर्मथनोत्थेन मश्रजेन तु वह्निना। अशेषभुवनाधारं चतुर्गतिसमन्वितम् ॥ ७३ ॥ लोकेशोपरिसंस्थं च व्योम्नि तस्योपरि न्यसेत् । प्रणवादिनमोऽन्तं च इच्छाग्नेर्वाचकः स्वयम् ।। ७४ ।। तेनानिदेशादारभ्य तं पिण्डं ज्वलितं स्मरेत् । भस्मराशिसमाख्यं शान्ताग्निं तदनु द्विज ॥ ७५ ॥ साह्लादेन च सूक्ष्मेण व्यापिनोङ्कारपूर्विणा । नमोऽन्तेन तु तद्भस्मपातं ध्यात्वान्वितस्ततः ॥ ७६ ॥ _ [ भस्मावशेषतया भावितस्य समाप्लावनभावना ] ध्यानजेनोदकेनाथ भूतिं संप्लाव्य दिग्गताम् । विनिपातात्स्वमन्त्रेण सिक्तेन क्षीररूपिणा ॥७७ ॥ [अथापूर्वतेजोमयशरीरसृष्टिभावनाक्रमः ] वगहममृतारूढं त्रैलोक्यैश्वर्यदान्वितम् । दीपकं द्वितयेनैतत्संपुटीकृत्य पूर्ववत् ।। ७८ ॥ तेन क्षीरार्णवाकाराद्धयायेद्विश्वं चराचरम् । पात्यमानं तदूर्ध्वं तु धारासडो द्विजामृतः ॥ ७९ ॥ तुर्यस्थानाद्विनिष्क्रान्तो भावनीयो मुहुर्मुहुः । तत्राधारमयी शक्ति मध्ये विन्यस्य वैष्णवीम् ॥ ८ ॥ बीजभूतां च सर्वस्य तदुत्थं चाम्बुजं स्मरेत् । परध्वतत्त्वभूतं च सितं तेजोमयं शुभम् ।। ८१ ॥ मण्डलत्रितयाकीर्ण स्पुरत्किरणभास्वरम् । मन्त्रात्मानं च तन्मध्ये ध्यायेनारायणं प्रभुम् ॥ ८२ ॥ निष्कलं केवलं शुदं पञ्चसन्मत्रविग्रहम् । तन्मनशक्तिभिर्भूयो मूञ्छितं भावयेविज ।। ८३ ॥ व्योमादिपञ्चभूतीयं मनमीश्वरपञ्चकम् । 1 निर्दण्ड S. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy