SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयाख्यसंहिता [प.९ सनमस्कं भवेत्तेन विष्णुतीर्थस्य सन्निधिः ॥ २८ ॥ [ तीर्थान्तरे केवलमूलमन्त्रमात्रयोजनम् ] अन्यतीर्थे यदा स्नानं कुर्यात्तत्र च योजयेत् । केवलं मूलमन्त्रं तु विष्णुतीर्थपदं विना ॥ २९ ॥ तीर्थान्तरेष्विदं नाम न सङ्कीर्तयते सुधीः । सन्निधाने हि तीर्थस्य यद्यन्यामभिधां स्मरेत् ॥ ३० ॥ स्नातकस्तस्य तत्तीर्थमभिशप्य क्षणं व्रजेत् । निर्जराम्बुतटाकादौ सामान्यस्नानकर्मणि ॥ ३१ ।। गङ्गादीनां नदीनां च तीर्थानां च प्रकीर्तितम् । मान्त्रे स्नानक्रमे सम्यग्विष्णुतीर्थाय कीर्तयेत् ।। ३२ ॥ [अङ्गमन्त्राभिमन्त्रितस्य मृद्भागस्य विनियोगः ] ततोऽङ्गमन्त्रजप्तं च भागं पाणितले स्थितम् । तोयेनालोट्य मसृणं तापयेदरश्मिभिः ॥ ३३ ॥ मेघच्छन्ने स्वकं मन्त्रं सूर्यवत्वस्थितं स्मरेत । दर्शयित्वा करे तस्य ताभ्यां सोङ्गकं स्पृशेत् ॥ ३४॥ [तीर्थस्य परमीकरणप्रकारः ] धारणाद्वितयेनाथ तीर्थस्य सजलस्य च। परमीकरणं कुर्याद्विधिदृष्टेन कर्मणा ।। ३५ ॥ आधारशक्तरारभ्य सङ्कल्पविषयावधि । वह्निना पूरयेत्सर्वं ज्वालामालाविलेन च ॥ ३६॥ निरम्मयं जगत्कृत्वा तीर्थ शान्ततनु स्मरेत् । शान्ते संविन्मये विष्णौ भूयस्तदवतार्य च ॥ ३७ ॥ निशाम्बुकणसङ्काशमियत्ताकल्पितं पुरा । स्मृत्वा शक्तिमभावेन ब्रह्मस्रोतो विनिर्गतम् ॥ ३८ ॥ धाराकल्लोलसङ्गीणं पतमानं तु वेगतः । आब्रह्मभवनं सर्व पूरयेच्छशिसग्निभम् ॥ ३९ ॥ विलोकनपदैश्शश्वत्सडझं तं तु भावयेत् । समस्ते पाक्स्वरूपेण तन्मध्ये त्वासनं प्रभोः ॥ ४० ॥ दत्वा तदुपरि ब्रह्मन् स्मरेनारायणं प्रभुम् । A. 1 For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy