SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. ८] १० www.kobatirth.org मुद्राधाख्यानं वामतर्जनिकाग्रं तु अङ्गुष्ठाग्रं च दक्षिणात् । परस्परं सम्मुखं तु सुश्लिष्टं विनियोजयेत् ॥ ३८ ॥ शङ्खस्यैषा भवेन्मुद्रा उत्ताना तु यदा स्थिता । [ चक्रमुद्रा ] स्पष्टौ प्रसारितौ हस्तौ परस्परनियोजितौ ॥ ३९॥ भ्रमणाचक्रवत्तौ तु' 'चक्रमुद्रेति कीर्तिता । नाशिनी सर्वदुःखानां मुद्राणां भेदिनी परा ॥ ४० ॥ [ गदामुद्रा ] बध्वा मुष्टिं दक्षिणेन वामाङ्गुष्टस्य मूर्धनि । कृत्वैवं दर्शयेदेपा कौमोदक्याः सुशोभना ॥ ४१ ॥ गदामुद्रेति विख्याता दोषसैन्यप्रमर्दनी । [ पक्षिराजमुद्रा ] Acharya Shri Kailassagarsuri Gyanmandir प्रसार्य संहतं कृत्वा पुरा पाणिद्वयं द्विज ॥ ४२ ॥ अनामा मूलदेशाभ्यामङ्गुष्ठाग्रद्वयं न्यसेत् । अधोमुखं तु पतितं मणिबन्धस्य सम्मुखम् ॥ ४३ ॥ सुश्लिष्टमग्रतः कृत्वा न्यसेत्तच्चाद्वियम् । तर्जनीमध्यमाभ्यां यद्वामं युग्मं करद्वयात् ॥ ४४ ॥ प्रोच्छ्रितं विरलं कुर्यात्कुचितं चापि सम्मुखम् । सुस्पष्टमुच्छ्रितं लग्नं पुच्छवत्कन्यसायुगम् ॥ ४५ ॥ पक्षिराजस्य मुद्रैषा केवलस्य महात्मनः । [ पाशमुद्रा ] प्रसार्य दक्षिणं पाणिं ततोऽङ्गुष्ठकनिष्ठिके ॥ ४६ ॥ मेळयेदग्रदेशाच्च सेतुवत्करणेन तु । 'फणवत्कुञ्चितं लग्नं तर्जन्याद्यं लतात्रयम् ॥ ४७ ॥ पाशमुद्रा भवत्येषा अङ्कुशाख्यं निबोध मे ।। ४८ ।। [ अङ्कुशमुद्रा ] कनिष्ठा मध्यमा नाम वामहस्तस्य मध्यतः । पृष्ठवनिक्षिपेत्पृष्ठे तासामङ्गुष्टकं भवेत् ॥ ४९ ॥ अग्रतस्तर्जनी कार्या कुश्चिताङ्कशवद्विज । इत्येषाऽङ्कुशमुद्रैव सत्यादीनामथो श्रृणु ॥ ५० ॥ I चA. 2 हृ C. L. 3 ल C. L, For Private and Personal Use Only ७३
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy