SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७. जयाल्यसंहिता भवेच्च साधकेन्द्राणां भुक्तिमुक्तिमसाधने । आदौ तु मूलमन्त्रस्य अन्येषां तदनन्तरम् ॥ २॥ मुद्रां वै बन्धयेन्मन्त्री स्नानकाले जलान्तरे । आत्मनो न्यासकाले तु पूजान्ते मण्डलावनौ ॥ ३ ॥ अर्चामु मन्त्रविन्यासे अर्घ्यपात्रेऽम्बुभाजने । पूर्णाहुत्यवसाने च मन्त्रे वह्नयन्तरस्थिते ॥ ४ ॥ हिंसकानां विधाताय सर्वविघ्नोपशान्तये । सर्वकार्यार्थसिध्यर्थं मुद्राकोश इहोदितः ॥५॥ [जयामुद्रा ] अधोमुखाद्वामहस्तान्मध्यमां ग्राहयेन्मुने । कनिष्ठया दक्षिणस्य तिस्रोऽन्या मुष्टिवस्थिताः ॥६॥ अङ्गुष्ठमुभयं कृत्वा मुद्रेयं तु जया स्मृता । अधस्ताद्गरुडं तस्या वामहस्ते विचिन्तयेत् ॥७॥ पृष्ठे स्यादक्षिणे हस्ते ध्यायेद्विष्णुं सनातनम् । एषा मुद्रा जया नाम सर्वकार्यार्थसाधनी ॥८॥ योजयेद्देवदेवस्य तापेण सहितस्य च । [शक्तिमुद्रा ] प्रसार्य वाममुत्तानमगुल्यो विरलाः स्थिताः ॥९॥ कार्यास्त्वाकुश्चिताः प्रान्तादङ्गुष्ठं सेतुवद्भवेत् । सम्मुखं तासु संलग्न करशाखासु मध्यतः ॥१०॥ हृत्सम्मुखं तु बधीयाच्छक्तिमुद्रां मुखपदाम् । शक्तियुक्तस्य देहस्य मुद्रा वै सन्निधापनी ॥ ११ ॥ प्रदेशिन्या ततो(?)विद्धि लक्ष्मीपूजासु शक्तिषु । [हृदयमुद्रा] दक्षिणेन तु हस्तेन मुष्टिबन्धं प्रकल्पयेत् ॥ १२॥ अङ्गुष्ठं करमध्यस्थं कृत्वा योज्यं हृदि द्विज । हृदयाख्या भवेन्मुद्रा सर्वमन्त्रेषु साधनी ॥१३॥ [शिरोमुद्रा] प्रसृता अहुलीस्सर्वा अङ्गुष्ठेन तु संस्पृशेत् । I दि A 2 धौ A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy