SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. ७] उपकरणमन्त्रोद्धारः त्रैलोक्यैश्वर्यदोपेतमूनोंपरि गतं तु तत् । ततो वाराहमादाय भूधरव्योमभूषितम् ॥ ८८ ॥ विष्वक्सेनाय तदनु सनमस्कं पदं न्यसेत् । प्रणवाघो ह्ययं मन्त्री विष्वक्सेनस्य कीर्तितः ॥ ८९ ॥ पूर्वबीजं हि यच्चास्य ऊकारस्वरवर्जितम् । गणेशवच पद्दर्भिन्नमङ्गगणं भवेत् ॥ ९० ॥ पणवेन स्वनाम्ना च जातिभिः षड्रिन्वितम् । [औपचारिकमन्त्रपञ्चकम् ] औपचारिकमन्त्राणां पञ्चकं चाधुनोच्यते ॥ ९१ ॥ मूलमन्त्रादिसर्वेषां सामान्यं यन्महामते । येन विज्ञातमात्रेण जपध्यानादिकं विना ॥ ९२ ॥ यथाकालं प्रयुक्तत्वात्संपूर्ण जायतेऽर्चनम् । [ आवाहने विनियोक्तव्यो मन्त्रः] प्रणवद्वितयोपेतं परमं यक्षरं पदम् ॥ ९३ ॥ धामावस्थितपश्चार्ण द्वितीयं मोद्धरेत्ततः । 'तदनुग्रहकाम्यं यो अष्टार्ण परमं पदम् ॥ ९४ ॥ दकारं च यकारस्यं तदन्ते योजयेद्विज । आदिदेवान्वितं पश्चाचाललक्ष्माणमुद्धरेद ॥ ९५ ॥ ततो वरुणसंबंच केवलस्रग्धरं ततः। अशेषभुवनाधारं जगधोनियुतं ततः ॥ ९६ ॥ परमात्मानमन्ते च गोपनेन समन्वितम् । रामोपेतं ध्रुवं दद्यात्ततः कालं च केवलम् ॥ ९७ ॥ वैराज केवलं चाथ सिद्धिदं त्र्यक्षरं पदम् । मवेति द्वथक्षरं दधाच्छङ्करं केवलं ततः ॥ ९८॥ अशेषभुवनाधारं मायायुक्तं ततो न्यसेत् । विक्रमव्योमसंभित्रमनलंचोद्धरेत्ततः ॥ ९९ ॥ नमो नमः पदं पश्चादष्टत्रिंशाक्षरः परः । प्रणवेनाधिको विष द्वितीयेन महासभः ॥ १०॥ 1 मद C. L. 2 न्त A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy