SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra प. ७ ] www.kobatirth.org उपकरणमन्त्रोद्धारः मन्त्राद्यस्य चतुष्कं तु पद्मनाभमतः परम् ॥ ६१ ॥ न्यसेत्तस्यानन्दयुतं व्योमोर्चे परमेष्ठिने । Acharya Shri Kailassagarsuri Gyanmandir सनमस्कं पदं दद्यात् पितृभ्यां [तॄणां] चाथ मे श्रृणु ॥ ६२ ॥ [ पितॄणां मन्त्राः ] तारपञ्चकमाह्लादं व्योममाणोपरि न्यसेत् । कालानलौ तु तदधस्सर्वलोकेश्वरोपरि ॥ ६३ ॥ यथाक्रमोदितैर्वणैः पिण्डं कृत्वा ततः पदम् । स्वधा पितृभ्यः सनमः पितृसङ्घस्य मन्त्रराट् ॥ ६४ ॥ [ पूर्वसिद्धमन्त्रः ] कथितो द्विजशार्दूल पूर्वसिद्धेष्वथोच्यते । अन्ते प्रणवपद्स्य आनन्दं व्योमभूषितम् || ६५ ॥ पद तथादिसिद्धेभ्यस्सनमस्कं नियोजयेत् । प्रागिमं मन्त्रनिचयं पूजयित्वा ततोऽर्चयेत् ॥ प्रधानमन्त्रपूर्वा ये यस्मिन्यस्मिंस्तु कर्मणि । ६६ ॥ [ लोकेशमन्त्राः ] अथ लोकेश मन्त्राणां शास्त्राणां लक्षणं शृणु ॥ ६७ ॥ व्योमानन्दं ततः प्राणं धरेशोपरि संस्थितम् । एतदेकीकृतं वर्ण' सृष्टिन्यायेन नारद ॥ ६८ ॥ ऐन्द्रो मन्त्रसमुद्दिष्ट इतरेषां निबोध मे । प्राणद्वयं द्विजोद्धृत्य क्रमादनलकालगम् ॥ ६९ ॥ द्वितीय स्वरसंयुक्तं व्योममस्तकभूषितम् । शिखिनश्चान्तकस्यैव द्वे बीजे परिकीर्तिते ॥ ७० ॥ व्यापी 'नरश्च लिङ्गात्मा प्राग्वत्संयोज्य पिण्डवत् । "यात्वीशस्य तु बीजेन अन्येषामवधारय ॥ ७१ ॥ परमात्मानमुद्धृत्य द्विधा द्वाभ्यामथो न्यसेत् । वराहसूक्ष्मसंज्ञौ तु व्योमानन्दावथोपरि ॥ ७२ ॥ अनुक्रमेण विज्ञेयौ बीजौ वरुणवायुजौ । धर्मी शोरूर्ध्वगं न्यस्य वर्ण वाराहसंज्ञकम् ॥ ७३ ॥ 1 र्ण A. 2 नारं च CL तारं च A 3 यं बीजस्य तु बीजेश A. ९ For Private and Personal Use Only ६५
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy