SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प. ६] मुख्यमन्त्रोद्धारः [पाशमन्त्रः] आदायादौ तु वैकुण्ठं तस्यारूढं च रं न्यसेत् । व्योमानन्दसमेतं च कढकट्ठपदं ततः ॥ १७९ ॥ धाराधरद्वयोपेतं वरपाशाय वै पदम् । स्वाहा चैव तु तस्यान्ते कुर्यात् 'सप्तदशाक्षरः ॥ १८० ॥ स तारको ह्ययं मन्त्रः पाशाख्यः क्षिप्रसिद्धिकृत् । [अङ्कुशमन्त्रः] प्रणवान्ते ततः कुर्याद्विरासंज्ञं तदुर्ध्वतः ॥ १८१ ॥ व्योमविमानलोपेतं कमलं तदनन्तरम् । ऋतधामोपरिस्थं च व्योम तस्योपरि न्यसेत् ॥ १८२ ॥ पदं निशितघोणाय अङ्कशाय पदं ततः। स्वाहान्वितस्त्रिपश्चार्णो मन्त्रराडकाशस्य च ॥ १८३॥ शीघ्रकर्मकरः प्रोक्तो नित्यमिच्छान्तलक्षणः। __ [उपाङ्गपञ्चकनिरूपणारम्भः] उपाङ्गपञ्चकं चाथ सत्यादीनां हि वाचकम् ॥ १८४ ॥ ब्रह्मस्वरूपममलं व्यापकं सर्वसिद्धिदम् । सम्यक्शृणुष्व देवर्षे सरहस्यं वदामि ते ॥ १८५॥ यद्विन्यासात्साधकस्य सिद्धो वै यत्र कुत्रचित । फलदो मन्त्रमूर्तिस्स्यादचिरात्तन्मयस्य च ॥१८६ ॥ स्याइवेशसमो मन्त्री तव्यासायाप्तिभावनात् ।। यागाहुतस्य मन्त्रस्य शक्त्यङ्गाघातस्य च ॥ १८७॥ सम्यनिरोधसिद्यर्थ योजनीयं सदैव हि । तथात्मनः कृते न्यासे न्यस्ते चोपाङ्गपञ्चके ।। १८८॥ शश्वत्स्याञ्चित्तवृत्तीनां विक्षिप्तानां च संयमः। [सत्याधुपाङ्गपञ्चकबीजमन्त्रः] तुर्यातीतात्मसंज्ञो यो वर्गः पश्चार्णभूषितः ॥ १८९॥ विलोमेन सुपर्णाचं स्थापयित्वा नियोज्य च । आचं वै भूधराख्येन ऊर्जसंज्ञेन चापरम् ॥१९० ॥ लोकेशेन तृतीयं तु तुर्य साक्षाच्च विष्णुना । I पञ्चदशा C. L. 3 विच्छा Y. को A. For Private and Personal Use Only
SR No.020424
Book TitlePanchratre Jayakhya Samhita
Original Sutra AuthorN/A
AuthorEmbar Krishnamacharya
PublisherOrental Institute
Publication Year1967
Total Pages588
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy